________________
काव्यमाला।
.......
.
....
...
.
....
..
.
...
..
..।
पुरीमपापामिव पञ्चवक्रध्वजो जिनेन्द्रः पुनरुन्नताहाम् ।
........." || १२०॥ सजिनेद्रः सूरिरन्तिममायुरपेक्षया चरमं चतुर्मासकं तत्र चक्रे कृतवान् । किं कृत्वा। अजयपुरदेवळपाटकादिषु विहारैः कृत्वा। पुनरपरवारमुन्नत इत्याहा नाम यस्यास्वादशी पुरी नगरी चरणारविन्दैः निजपादपद्मः पवित्रां पावनीं कृत्वा । क इव । पञ्चवक्रध्वज इव । यथा केसरिकेतनो महावीरो जिनानां सामान्यकेवलिनां मध्ये तीर्थाधिपखादिन्द्रः पुरंदरः अपापां पुरी खीयपदपङ्कजैः पवित्रीकृयान्तिमं पश्चिमं चतुर्मासकं कृतवान् । [वाचंयमेन्दुर्निजमायुरल्पं] विदांचकाराथ हृदा तदानीम् । स्वेनोपचेतुं पुनरेष पुण्यमगण्यमैच्छद्रविणं धनीव ॥ १२१ ॥
अथ चतुर्मासकस्थितेरनन्तरं तदानीं तस्मिन् प्रस्तावे तञ्चतुर्मासक एव वाचंयमेन्दुहीरविजयसूरिः हृदा कुशाप्राप्रिममतज्ञानवता हृदयेन कृत्वा निजमात्मीयमायुर्जीवितकालमल्पं स्तोकं विदांचकार अज्ञासीत् ज्ञातवान् । पुनरित्सन्योक्तिः । एष सूरिः स्वेनात्मना अगण्यमपरिमितं खर्गापवर्गसाधकं पुण्यं सुकृतमुपचेतुं पुष्टं कर्तुमैच्छ . द्वाञ्छति स्म । क इव । धनीव । यथा व्यवहारी अगण्यं गणयितुमशक्यं गणितं द्रविणं धनमुपचेतुमिच्छति ॥
संलेखनां तत्र तपोविचित्रां स वृत्रशत्रुतिनां वितेने। विधित्सयेवोत्सुकितोचरात्मशुद्धेर्बहिःस्नानमिवाङ्गशुद्धेः ॥ १२२ ॥
तत्रोन्नतनगरे स वतिनां वृत्रशत्रुर्वाचंयमवासवो हीरविजयसूरिस्तपोभिरेकाशननिविकृतिकाचाम्लचतुर्थषष्ठाष्टमादिभिः कृत्वा विचित्रां नानाविधां संलिख्यन्ते संतक्ष्यन्ते तुच्छीक्रियन्ते खकर्माण्यनयेति संलेखना तपोनुष्ठानविशेषस्तां वितेने करोति स्म । उत्प्रेक्ष्यते-अन्तरात्मनो जीवस्य शुद्धेर्निर्मलतायाः कर्मराहित्यस्य विधित्सया कर्तुमिच्छया उत्सुकित उत्कण्ठित इव । किमिव । बहिःमानमिव । यथा कश्चिदङ्गस्य बाह्यशरीरस्य शुद्धविशुद्धताया विधित्सया विधातुमिच्छयोत्सुकितो बहिःस्नानं जलादिभिस्त्वङ्मलापहसेवनं वितनुते ॥ इति संलेखना ॥ प्राचीनसूरीन्द्र इव प्रणीय संलेखनामेष विशिष्य सूरिः । आराधनां प्रारभतेति शान्तरसारविन्दैकविलासहंसः ॥ १२३ ॥ एष सूरिः इत्यप्रे वक्ष्यमाणप्रकारेण आराध्यन्ते सर्वव्यापारपरित्यागेन पुराकृतदुकृतमिथ्यादुष्कृतप्रदानेन च त्रिधापि अर्हदादयः सेव्यन्ते यस्यां सा आराधना तां प्रारभत प्रारब्धवान् । किंभूतः । शान्तनामा नवमो रसः उपशमलक्षणः स एवारविन्दं विकसितकमलं तत्रैकोऽद्वितीयो विलासः क्रीडा तत्राद्वैतखेलनविषये हंसो राजमराल: हंसोपमः आराधनां प्रारभत । किं कृत्वा । प्राचीनसूरीन्द्रो वज्रखामीप्रमुखपूर्वाचार्य