________________
१७ सर्गः] हीरसौमाम्यम् ।
८८३ दलनेन वारगेन्द्राः कुअरराजाः अभवन् संजायन्ते स्म । के इव । तरङ्गिणीनां जीवि. तेशा इव । यथा नदीनां नाथाः सप्तसंख्याका भवन्ति । यदुक्तं हैम्याम्-'द्वीपान्तरैरसंख्यास्ते सप्तैवैते तु लौकिकाः' इति द्वये अपि । किंभूताः । उल्लसन्तः स्फुरन्तो वाचो वाण्य एव लहर्यः कल्लोलास्तेषां विलासा विभ्रमा वैचित्र्यो येषु येषां वा । पुनः किंविशिष्टाः । गाम्भीर्य गम्भीरिमाणमलब्धमध्यत्वं भजन्तीति । पुनः कथंभूताः । गुणा एव रत्नानि मणयस्तैः पूर्णा निर्भरभृताः ॥
क्षमां दधानस्य च गौरिमाणं पदाजभृङ्गायितचक्रिणश्च । द्वे यस्य जाते यतिनां सहस्रे विलोचनानामिव भोगिभर्तुः ॥ ११० ॥ यस्य सूरेर्यतिनां साधूनाम् । 'ब्रह्मशर्मभरचारुयतीव' इति नैषधे । अतो यतिशब्द इकारान्तो नकारान्तश्च । द्वे सहस्र विंशतिशती जाते । कस्येव । भोगिभर्तुरिव । यथा नागराजस्य विलोचनानां चक्षुषां द्वे सहस्र स्तः सहस्रफणत्वात् । किंभूतस्य यस्य भोगिभर्तुश्च । क्षमा शान्ति सर्वसहतां धरित्री दधानस्य बिभ्राणस्य । च पुनर्गौरिमाणं सुवर्णवर्णतां श्वेतिमानं च । 'गौरः श्वेतपीतयोः' इत्यनेकार्थः । पुनः किंभूतस्य । पदाब्जयो. श्चरणारविन्दयोः भृङ्गायिता भ्रमरवदाचरिताश्चक्रिण: चक्रवर्तिनो महाराजा नागाश्च यस्य । 'दीकरः कञ्चुकिचकिगूढपात्' इति हैम्यां गुरुनागेन्द्रयोर्विशेषणानि ॥
शीलं परिष्कारमिवोद्वहन्त्यः सर्वानुवादा इव चन्दनायाः ।
यस्याप्तवाङ्मानसराजहंस्यः साध्व्यो बभूवुस्त्रिशतीमिताश्च ॥ १११॥ . यस्य सूरेनयाणां शतानां समाहारस्त्रिशती त्रीणि शतानि तया मिताः प्रमाणीकृताः साध्व्यो यतिन्यो बभूवुः संजाताः । किंभूताः । आप्तानां तीर्थकृतां वाग्वाणी सिद्धान्तः । 'आप्तोक्तिः समयागमौ' इति हैमीवचनात् । सैव मानसं राजहंसनिवाससरस्तत्र खेलने राजहंस्यः । सिद्धान्तखाध्यायध्यानपरा इत्यर्थः । किं कुर्वत्यः । उद्वहन्त्यः उत्प्राबल्येन वहन्यो धारयन्त्यः । किम् । शीलं त्रिधापि ब्रह्मचर्यम् । कमिव । परिष्कारमिव आभरणमिव । 'परिष्काराभरणे च' इति हैम्याम् । उत्प्रेक्ष्यते-चन्दनायाः चन्दनबालायाः सर्वानुवादा इव सर्वशीलागमादिकमनुवदन्ति अनुकुर्वन्तीति । चन्दनातुल्या इत्यर्थः ॥ . व्रजे यतीनां विजयाद्यसेनप्रभोर्ददौ सूरिपदं य एकम् ।
नक्षत्रताराग्रहमण्डलेऽपि वेधा यथा राजपदं सुधांशोः ॥ ११२ ॥ य: सूरिर्यतीनां व्रजे श्रमणानां गणे सत्यपि विजय इति पदमाद्यं प्रथमं यत्र तादृशः सेन एतावता विजयसेननामा प्रभुर्मुनिः खामी तस्य नान्यस्य एकं सूरिपदमाचार्यपदं ददौ दत्तवान् । यथा इवार्थे । क इव । वेधा इव । यथा ब्रह्मा जैनमते नक्षत्राणाम. टाविंशतिसंख्यानां ताराणां षट्षष्टिसहस्रकोटिकोट्यस्तथा पञ्चसप्ततिकोट्य एतावत्प्रमाणानां तारकाणां तथा ग्रहाणामष्टाशीतिप्रमितानां कलिकालनानि पञ्चमारके नराणाम