Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 942
________________ १७ सर्गः] हीरसौभाग्यम् । उपोषणानामपुषत्सहस्रत्रयं स तस्योपरि षट्शतीं च । सरोजजन्मा धरणीधरेन्द्रं सुधाशनानामिव चारुचूलाम् ॥ १०२ ॥ स सूरिरुपोषणानामुपवासानां सहस्राणां दशशतीनां त्रयं त्रिकं त्रिसहस्रीमपूपुषत् पुष्णाति स्म । चकारेत्यर्थः । च पुनस्तस्य सहस्रत्रयस्य उपरि षट्शतीं षट्शतानि उपवासान् चकार । क इव । सरोजजन्मेव । यथा कमलभूर्ब्रह्मा सुधाशनानां देवानां धरणीधरेन्द्र मेरुं व्यधात् । पुनस्तस्योपरि चावी प्रकृष्टां चूलां विधत्ते स्म । यद्यपि धरणीधरेन्द्र इति नाना मेरुरायातस्तथापि धरणीधरेन्द्रो हिमाद्रिरप्युच्यते । तस्यापि नगाधिराजत्वं वर्तते । परं तस्मिन् चूला नास्ति, तन्निरासार्थ सुधाशनानामित्युक्तम् । सुराद्रिर्मेरुरेव नापरः ॥ एकाशनाचाम्लयुतैर्यतीन्दुरुपोषणैर्निर्गलितान्तरायम् । त्रयोदश व्यातनुते स्म मासाशिक्षामि वः स्वीयगुरोस्तपोऽसौ॥१०३॥ असौ यतीन्दुः सूरि: खीयगुरोः विजयदानसूरेः तपोऽनुष्ठानविशेष व्यातनुते स्म निर्ममे । कान् । मासान् । त्रिंशद्वासरान्यावत् । किंभूतान् मासान् । त्रयोदश विश्वेदेवप्रमितान् त्रयोदशसंख्याकान् । कथम् । निर्गलितान्तरायं विगतविगतविघ्नम् । कैश्चके । उपोषणैरुपवासैः । किंभूतैः । एकाशनाचाम्लयुतैः प्रथममुपवासः, तत एकाशनकमेकभकम्, तत आत्वाम्लं केवलं जलेन रुक्षानाशनम् , पुनरुपवासः, अनया रीत्या निर्विघ्नं त्रयोदशमासी यावद्विजयदानसूरेस्तपो विदधे । उत्प्रेक्ष्यते-खीयगुरोरासेवनाग्रहणा. दिको शिक्षामिवातनुते स्म ।। त्रिधा समारा मनाः समग्रज्ञानानि चैकादशयुग्ममासान् । तपांसि तीव्राणि चकार योगैः परीषहा तुमिवेहमानः ॥ १०४ ॥ स सूरिरेकादशानां युग्मं येषु । एकादश द्वाभ्यां गुणिता द्वाविंशतिर्जाता । तादृशान्मासान् द्वाविंशतिमासान्यावद्योगैरङ्गोपाङ्गादिसूत्राणां योगवहनैः कृत्वा तीव्राण्युपवासाः चाम्लादिरूपाणि तपांसि चकार कृतवान् । किं कर्तुमनाः। त्रिधा त्रिभिर्मनोवाकायलक्षणैः कृत्वा समप्राणि मतिश्रुतावधिमनःपर्यवकेवललक्षणानि पश्चापि ज्ञानानि समारा मनाः सम्यगारांधयितुंकामः । उत्प्रेक्ष्यते-क्षुधा-तृषा-शीत-उष्ण-दंशमशक-अचेलअरति-स्त्री-चर्या-निषद्या-शय्या-आक्रोश-वध-याचन-अलाभ-रोग-तृण-मल-स. त्कार-प्रज्ञा-अज्ञान-सम्यक्त्व रूपान् द्वाविंशतिसंख्याकान् परीषहान् जेतुमीहमान इव ।। उप्रैस्तपोभिर्युनिशं त्रिमासीं यत्सूरिमन्त्रं विधिनारराध । श्रीशासनाधित्रिदशैर्वशीन्द्रः स्वयं स्वयंभूरिव सेव्यमानः ॥ १०५ ॥ यो यशीन्द्रो योगीश्वरः उप्रैः पारणकेष्वाचाम्लयुक्तैश्चतुर्थषष्ठाष्टमादिरूपैस्तपोभिरभिप्रहविशेषैः कृत्वा त्रिमासी मासत्रयीं यावत् युनेिशनहोरात्रं सूरिमन्त्रमाचार्यपद

Loading...

Page Navigation
1 ... 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980