________________
१७ सर्गः] हीरसौभाग्यम् ।
उपोषणानामपुषत्सहस्रत्रयं स तस्योपरि षट्शतीं च । सरोजजन्मा धरणीधरेन्द्रं सुधाशनानामिव चारुचूलाम् ॥ १०२ ॥ स सूरिरुपोषणानामुपवासानां सहस्राणां दशशतीनां त्रयं त्रिकं त्रिसहस्रीमपूपुषत् पुष्णाति स्म । चकारेत्यर्थः । च पुनस्तस्य सहस्रत्रयस्य उपरि षट्शतीं षट्शतानि उपवासान् चकार । क इव । सरोजजन्मेव । यथा कमलभूर्ब्रह्मा सुधाशनानां देवानां धरणीधरेन्द्र मेरुं व्यधात् । पुनस्तस्योपरि चावी प्रकृष्टां चूलां विधत्ते स्म । यद्यपि धरणीधरेन्द्र इति नाना मेरुरायातस्तथापि धरणीधरेन्द्रो हिमाद्रिरप्युच्यते । तस्यापि नगाधिराजत्वं वर्तते । परं तस्मिन् चूला नास्ति, तन्निरासार्थ सुधाशनानामित्युक्तम् । सुराद्रिर्मेरुरेव नापरः ॥
एकाशनाचाम्लयुतैर्यतीन्दुरुपोषणैर्निर्गलितान्तरायम् । त्रयोदश व्यातनुते स्म मासाशिक्षामि वः स्वीयगुरोस्तपोऽसौ॥१०३॥
असौ यतीन्दुः सूरि: खीयगुरोः विजयदानसूरेः तपोऽनुष्ठानविशेष व्यातनुते स्म निर्ममे । कान् । मासान् । त्रिंशद्वासरान्यावत् । किंभूतान् मासान् । त्रयोदश विश्वेदेवप्रमितान् त्रयोदशसंख्याकान् । कथम् । निर्गलितान्तरायं विगतविगतविघ्नम् । कैश्चके । उपोषणैरुपवासैः । किंभूतैः । एकाशनाचाम्लयुतैः प्रथममुपवासः, तत एकाशनकमेकभकम्, तत आत्वाम्लं केवलं जलेन रुक्षानाशनम् , पुनरुपवासः, अनया रीत्या निर्विघ्नं त्रयोदशमासी यावद्विजयदानसूरेस्तपो विदधे । उत्प्रेक्ष्यते-खीयगुरोरासेवनाग्रहणा. दिको शिक्षामिवातनुते स्म ।।
त्रिधा समारा मनाः समग्रज्ञानानि चैकादशयुग्ममासान् । तपांसि तीव्राणि चकार योगैः परीषहा तुमिवेहमानः ॥ १०४ ॥ स सूरिरेकादशानां युग्मं येषु । एकादश द्वाभ्यां गुणिता द्वाविंशतिर्जाता । तादृशान्मासान् द्वाविंशतिमासान्यावद्योगैरङ्गोपाङ्गादिसूत्राणां योगवहनैः कृत्वा तीव्राण्युपवासाः चाम्लादिरूपाणि तपांसि चकार कृतवान् । किं कर्तुमनाः। त्रिधा त्रिभिर्मनोवाकायलक्षणैः कृत्वा समप्राणि मतिश्रुतावधिमनःपर्यवकेवललक्षणानि पश्चापि ज्ञानानि समारा मनाः सम्यगारांधयितुंकामः । उत्प्रेक्ष्यते-क्षुधा-तृषा-शीत-उष्ण-दंशमशक-अचेलअरति-स्त्री-चर्या-निषद्या-शय्या-आक्रोश-वध-याचन-अलाभ-रोग-तृण-मल-स. त्कार-प्रज्ञा-अज्ञान-सम्यक्त्व रूपान् द्वाविंशतिसंख्याकान् परीषहान् जेतुमीहमान इव ।।
उप्रैस्तपोभिर्युनिशं त्रिमासीं यत्सूरिमन्त्रं विधिनारराध । श्रीशासनाधित्रिदशैर्वशीन्द्रः स्वयं स्वयंभूरिव सेव्यमानः ॥ १०५ ॥ यो यशीन्द्रो योगीश्वरः उप्रैः पारणकेष्वाचाम्लयुक्तैश्चतुर्थषष्ठाष्टमादिरूपैस्तपोभिरभिप्रहविशेषैः कृत्वा त्रिमासी मासत्रयीं यावत् युनेिशनहोरात्रं सूरिमन्त्रमाचार्यपद