________________
८.
काव्यमाला। ब्रह्मव्रतधारिवशः क्रियारवाः पूर्णपोषधतः ॥ नवतपसा च तपखी सुसंक्भिागेन गोतमखामी । वैयावृत्त्येन जिनाः समताभावाच्च चारित्रम् ॥ ज्ञानं नूतनपठनात्संघा विरचितैः श्रुतज्ञानम् । जिनशासनोन्नतिकृतेस्तीर्थ त्वेभिभवेदहन ॥ एतदभिधानानि विंशविस्थानकानि आतनुते स्म विदधे । उत्प्रेक्ष्यते-निजस्यात्मनः विंशतिसंख्याकानि असमाधिरिति पदं पूर्व येषां तादृशानि स्थानानि । तानि यथा--अतित्वरितं प्रचलति, अप्रमार्य स्थानकं कुरुते, दुःप्रमाय॑ स्थानकं कुरुते, अन्यजनैः सह नारवल्क्लेशं का. रयति, पीठशय्यापट्टकादीनि अधिकानि रक्षयति, आचार्योपाध्यायरत्नाधिकानां संमुर्ख वक्ति, स्थविरादीन् घातयति, भूतानि विनाशयति, पुनः पुनः क्रोधं कुरुते, सदैव कोषतो भाषयितुमपि न शक्यते, पृष्ठे गुणवता विरुद्धं भाषते, मुहुर्मुहुनिश्चयभाषां माषते, अधिकरणान्युदीरयति, अकाले खाध्यायं कुरुते, अस्थण्डिलात्स्थाण्डिलं गच्छन् । पादौ न प्रमार्जयति खयं च खण्डितहस्ताभ्यां विहरति, अकाले दीर्घ बाढखरेण भाषते, खयं निःप्रयोजनं क्लेशं कुरुतें, गच्छभेदं स्वयं करोति परांश्च कारयति परैर्वा, यावद्भाखानुदयत्यस्तमयति च तावद्भुत, अशुद्धमानमप्याहार न मुञ्चति; एवंविधानि विंशत्यसमाधिस्थानकानि अपाकर्तुमना निराकर्तुकाम इवैषः ॥
चक्रे पुनर्निर्विकृतीः सहस्रे द्वे सूरिरद्वैतधृतिं दधानः ।, . किं संसृतिं निर्विकृति विधातुं हृषीकपढ़ेिं किमुत स्वकीयाम् ॥१०॥ सूरिः पुनर्यथा चाम्लानि तथैव द्वे सहस्रे सहस्रयोयीमेतावता विंशतिशतीं दधिदुग्ध-पक्कान-तैल-गुड-घृतरूपविकृतिपरित्यागरूपा निर्विकृतीस्तपोप्रहविशेषांश्चके कृतवान् । किंलक्षणः । धृति रसनारसलाम्पट्यपरित्यागमयीं संतोषं दधानो बिभ्राणः । उत्प्रेक्ष्यते-संमृति संसारं भूयो भूयों दोषोत्पादकत्वेन अनन्तजन्ममरणोपचयकारणलक्षणा विकृतिर्विकारस्तदहिताम् । विरलामित्यर्थः । कर्तुं विधातुमिव । उताथ वा खकीयां खात्मसंबन्धिनी हृषीकपतिमिन्द्रियंश्रेणीम् । पञ्चाक्षीमित्यर्थः । निर्विकृति विकारविकलां स्पर्शन-रसन-घ्राण-नयन-श्रवणानामिन्द्रियाणां स्पर्श-रस-गन्धरूप-शन्देषु प्रवृत्तिकरणलक्षणेषु तत्तद्यापारेषु मन्दीभवनानिवृत्तिकारिकां कर्तुमिव वा॥
स एकदन्तिस्फुरदेकसिक्थमुखानि तीवाणि तपांसि चक्रे । प्रभुः प्रणेतुं स्पृहयन्निवैकभवामनन्तामपि संसृति खाम् ॥ १०१॥
स सरिरेकदन्तिरेकस्मिन्वारके पात्रे । यत्रानवच्छिन्नं पानीयानादिकं पतेत्सा एकदतिरुच्यते । यस्मिंश्चैकमेव सिक्थं भुज्यते नान्यत्तदेकसिक्थमेकदन्त्या स्फुरद्दीप्यमानम्। युक्तमित्यर्थः । एकसिक्थं तत्प्रमुखमाद्यं येषु तादृशानि तीव्राणि अतिकठिनानितपांसि चक्रे विनिर्मितवान् । उत्प्रेक्ष्यते-अनन्तां स्वभावपरिणामेन न विद्यते अन्तो ऽवसानं यस्यास्तादृशीं खां खकीयां संसृति संसारमेक एव भवोऽवतारो यस्यास्तादृशीं प्रणेतुं निर्मातुं स्पृहयन्निव ॥