________________
८७९
१७ सर्गः] हीरसौभाग्यम् ।
द्वासप्ततिं सूरिसहस्ररश्मिः स्म निर्मिमीते पुनरष्टमानाम् । विद्मश्चतुर्विंशतिकात्रिकस्य प्रसत्तिमाधातुमना जिनानाम् ॥ ९७ ॥ सूरिषु सहस्ररश्मिः अधिकप्रतापत्वेन भानुमाली पुनर्द्वयोरालोचनयोरन्येषां च अष्टमानामुपवासत्रिकलक्षणानां द्वासप्ततिं निर्मिमीते स्म कृतवान् । उत्प्रेक्ष्यते-चतु. विंशतिकानामतीतानागतवर्तमानरूपाणां त्रिकस्य त्रितयस्य जिनानां तीर्थकृताम् । चतु. विंशतिस्त्रिभिर्गुणिता सती द्विसप्ततिर्भवेत्। एतावता द्वासप्ततिमितार्हद्भट्टारकाणाम् । केवलज्ञानि-निर्वाणि-सागर-महायश:-विमल-सर्वानुभूति-श्रीधर-दत्त-दामोदर-सुतेज:खामि-मुनिसुव्रत-सुमति-शिवगति-अस्ताघ-न मि-अनिल-यशोधर-कृतार्थ-जिनेश्वर-शुद्धमति-विवेक-स्यन्दन-संप्रतिनामान एतेऽतीतचतुर्विंशतिजिनाः । ऋषभअजित-शंभव-अभिनन्दन-सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल-अनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमिपार्श्व-वर्धमानाभिधाः एते वर्तमानचतुर्विंशतितीर्थकराः । पद्मनाय-सुरदेव-सुपार्श्वकखयंप्रभ-सर्वानुभूति-देवश्रुत-उदय-पेढाल-पोटिल-शतकीर्ति-सुव्रत-असम-निष्कषाय-निष्पुलाक-निर्मम-चित्रगुप्त-समाधि-संवर-यशोधर-विजय-मल्ल-देव-अनन्तवीर्य-भद्रकृत्संज्ञा एते त्वनागतचतुर्विंशतिरहन्तः । एतेषां चतुर्विंशतित्रितयजि. नानां प्रसत्ति खविषये प्रसन्नभावमाधातुमनाः कर्तुकाम इव विद्म इवार्थेऽत्र ॥
चक्रे य आचाम्लसहस्रयुग्मं स्वयं जिनं स्तोतुमवेक्षितुं वा। __ पृथक्सहस्रे रसनेक्षणानां विद्मः फणीन्दोरिव लिप्समानः ॥ ९८॥ • यो भगवान् आचाम्लानां सहस्रस्य दशशत्या युग्मं द्वन्द्वं चक्रे विंशतिशतीं विधत्ते स तत्र विषये वयमेवं विद्मो जानीमः । उत्प्रेक्ष्यते वा-जिनं वीतरागं खयमात्मनैव स्तोतुं स्तवनगोचरीकर्तुं पुनरवेक्षितुं विलोचनविषयं विधातुं द्रष्टुं रसनेक्षणानां जिह्वानयनानां पृथक्पृथक् सहस्रे लिप्समानः कावन्निव । भगवन्तं स्तोतुं रसनानां द्विसहस्रं तथा अनिमेषं विलोकयितुं लोचनानां विंशतिशतीमीहमान इव । केषामिव । फणीन्दो रसनेक्षणानामिव । यथा शेषनागस्य रसनानां तथा ईक्षणानां सहस्र स्तः । तस्य नागराजस्य सहस्रफणत्वेन द्विजिह्वत्वेन द्विनेत्रत्वेन सहस्रफणेषु रसज्ञानां नयनानां च द्विसंख्याभाक्त्वेन द्विसहत्री स्यात् । तथा चम्पूकथायाम्-'यस्यास्मिन्नुरगप्रभोरिव भवेजिह्वासहस्रद्वयम्' इति ॥
आचाम्लकैर्विंशतिसंमितानि यः स्थानकान्यातनुते स सूरिः। . निजस्य विंशत्यसमाधिपूर्वस्थानान्यपाकर्तुमना इवैषः ॥ ९९ ॥ यः सूरिराचाम्लकैराचाम्लनामतपोविशेषैः कृत्वा विंशतिसंख्यया संमितानि प्रमाणीकृतानि स्थानकानि–'अर्हति सिद्धे प्रवचनसूरि स्थविरेषु वाचके साधौ । ज्ञाने भक्तिदर्शनशुद्धिः सद्विनयसंपन्नाः ॥ संध्याद्वयेऽप्यवश्यावश्यककरणेन शुद्धचारित्रम् ।