________________
८७८
काव्यमाला ।
अहो दुहामंहसां दुरन्तदुरितानां दुहां द्रोहकारिकाणां मूलादुच्छेदविधायकानां च पुनर्यो मुनीन्द्रः कार्यं खशरीरमशूशुषत् विकटोत्कटतपोभिः कृत्वा शोषयति स्म । कृशीकृतवानित्यर्थः ॥
गुरोः समीपे विजयादिदानवाचंयमेन्दोर्विधिना व्रतीन्द्रः ।
आलोचनां द्विर्महयांबभूव लोकद्वयस्येव विशुद्धये सः ॥ ९४ ॥
व्रतीन्द्रो हीरसूरिर्गुरोः स्वधर्माचार्यस्य तपस्यादातुर्वा विजय इति पदमादौ यस्य तादृशस्य दाननान एतावता विजयदानसंज्ञस्य वाचंयमेन्दोः सूरेः समीपे पार्श्वे विधिना शास्त्रोक्तप्रकारेण द्विर्वारद्वयमालोचनां निःशल्यत्वेन निजाशेषपापप्रकाशनपूर्वकप्रायश्चित्तविशेषं ग्रहयांबभूव गृह्णाति स्म । 'गृह्णाति द्रहयते लाति' इति क्रियाकलापे । उत्प्रेक्ष्यते—लोकयोरिहलोकपरलोकयोर्वर्तमानामुक भवयोर्द्वयस्य युगलस्य विशुद्धये निर्मलीकरणायेव ॥
उपोषणानां त्रिशर्ती व्यतानीत्सूरीन्दुरा लोचनयोर्द्वयोः सः ।
समीहमानो मनसाधिगन्तुं पदं त्रिलोकाप्रभवं किमेषः ॥ ९९ ॥
यः पातिसाहिसंमानितः स जगद्विख्यात एष प्रत्यक्षलक्ष्योऽस्मदादीनां दृग्गोचरीभ• वन् सूरीन्दुहरसूरिचन्द्रो द्वयोरुभयोरालोचनयोर्द्विर्वार विहितदुः कृतालोचनप्रायश्चित्तयोरुपोषणानामुपवसनानां त्रिशतीं त्रयाणां शतानां समाहारस्त्रिशती तां सर्वाप्रेणेति संभाव्यते । व्यतानीत्करोति स्म । उत्प्रेक्ष्यते — त्रिलोकस्य । 'त्रिलोकनाथेन सता नख. द्विषः' इति रघौ । 'त्रिलोकनाथास्त्रिलोकपूज्यास्त्रिलोकेश्वरा इति बृहच्छान्तौ । त्रैलोक्यस्या उपरितनप्रदेशे भवमुत्पन्नं यत्पदं यत्स्थानं मनसा अधिगन्तुं प्राप्तुं मोक्षस्थानं लब्धुमधिगत्य प्राप्येत्यर्थः' इति तद्वृत्तिः । मनसा खचित्तेन कृत्वा समीहमान एष वाञ्छन्निव ॥
षष्ठात्सपादां द्विशतीं शमीन्द्रो व्यातन्तनीति स्म स नीतिचन्द्रः । साऽपि गव्यूतिशतद्वये स्वमाहात्म्यमिच्छञ्जिनवत्किमुर्व्याम् ॥ ९६ ॥ शमीन्द्रः शमवतां साधूनां मध्ये इन्द्रः पुरंदरो द्वयोरलोचनयोस्तथा अन्येऽपि सर्वे भूपतयः सपादां द्विशतीं पश्ञ्चविंशत्यधिकशतद्वयीं षष्ठानामुपवासद्वयलक्षणानां व्यातन्तनीति स्म कृतवान् । स किंलक्षणः । नीतौ न्याये चन्द्रः । अथ वा 'सान्द्र' इति पाठः । दृढः अतिशायिन्यायविधाता । तत्र विषये वयमेवं विद्मः । उत्प्रेक्ष्यते वा व्यूतीनां क्रोशानां साग्रे पञ्चविंशत्यधिके शतद्वये । सपादक्रोशशतद्वयप्रमाणे इत्यर्थः । इति हैमनाममालानुगत व्याख्यानम् । 'तस्यां यथा साप्रे च गव्यूतिशतद्वये -' इति । जिनवत्ती - र्थकरस्येव स्वस्य माहात्म्यं निजस्य सप्तानामीतीनां प्रशमनरूपादिकं महिमानमुर्व्या पृथिव्यां किमिच्छन् काङ्क्षन्निव ॥