Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 933
________________ ८७२ काव्यमाला। 'तू तूरं स्मरध्वजः' इति हैम्याम् । ओघाः समूहास्तेषां ध्वनिभिनीनाप्रकारप्रसरनिघोषैः पूर्यमाणः बहलीक्रियमाणैः ॥ इति द्वीपोन्नतपुरसंमुखागमनवर्णनम् ॥ तदुत्सवे मूर्छति भूर्भुवःस्वस्त्रयीप्रसत्तिं प्रदिशत्यपूर्वाम् । .. अलंचकार प्रभुरुन्नताख्यां पुरं हरिभरवतीमिवासौ ॥ ७७ ॥ प्रभुहीरविजयसूरि नतमिति आख्या नाम यस्यास्तादृशीं पुरं नगरीमलंचकार भूष. यामास । क इव । हरिरिव । यथा नारायणो धनदनिर्मितां द्वारवती द्वारका नगरीमलं.. करोति । कस्मिन् सति । तदुत्सवे स चासावुत्सवश्च तदुत्सवः द्वीपोन्नतादिसंघप्रारब्धसूरिप्रवेशमहामहस्तस्मिन्मूर्च्छति वृद्धिमतिशायितां श्रयति प्राप्नुवति सति । किं कु. यति तदुत्सवे। भूर्भुवःखस्त्रय्या नागलोकनाकिलोकभूमिलोकानां त्रिकस्य अर्थात्रिजगजनानां प्रसत्तिं मनःप्रसन्नता प्रमोदप्रकर्ष प्रदिशति प्रयच्छति ददति ॥ तस्मिन्नतेर्गोचरयांचकार चैत्येषु तीर्थाधिपतिं मुदा सः । । कण्ठीरवः शैलगुहामिवाथानैषीद्विभूषां वसतिं व्रतीन्द्रः ॥ ७८ ॥ . स हीरसूरिस्तस्मिन्नुन्नताभिधाननगरे चैत्येषु ऋषभदेवप्रमुखजिनप्रासादेषु तीर्थाधिपतिं जिनाधिराजप्रतिमां मुदा हर्षेण नतेः प्रणामस्य गोचरयांचकार विषयीकरोति स्म । नमस्कृतवानित्यर्थः । अथानन्तरं देववदनात्पश्चात् व्रतीन्द्रः सूरिः वसतिमुपायं विभूषां शोभामनैषीत्प्रापयति स्म । क इप । कण्ठीरव इव । यथा पारीन्द्रः शैलगुहां गिरिकंदरां विभूषां नयति ॥ इत्युपाश्रयागमनम् ॥ ततः समुद्दिश्य महेभ्यसभ्यान्धर्मोपदेशं स वशी दिदेश । पीयूषवत्तेऽपि निपीय वत्सा इवावहन्संमदमेदुरत्वम् ॥ ७९ ॥ ततो वसतावुपाश्रये आगमनानन्तरं स वशी जितेन्द्रियः सूरिर्महेभ्या व्यवहारिणस्ते एव सभ्याः सदस्याः सभाजनास्तानुद्दिश्य उद्देशं कृत्वा धर्मोपदेशं धर्मदेशनां दिदेश ददाति स्म । तेऽपि महेभ्यसभ्याः पीयूषवत्सुधारसमिव निपीय पीत्वा तद्दे. शनां सादरं श्रुत्वा संमदैरानन्दैः कृत्वा मेदुरत्वं पुष्टतामवहन्दधते स्म । के इव । वत्सा इव । यथा गवां तर्णका पीयूषं रूखमातुरूधोमध्यविनिःसरदभिनवं पयो दुग्धं पीला प्रमोदादाखाद्य मेदुरत्वमुपचयभावं वहन्ते । 'पीयूषोऽभिनवं पयः । पीयूषमपि' इति हैमीसूत्रवृत्त्याः ॥ . क्षेत्रेष्विवाम्बूनि नभोम्बुवाहा द्युम्नांशुकान्यर्थिषु ते ववर्षुः । प्रभावनां श्रीफलपूगपूगैश्चक्रुस्ततो रूपकनाणकैश्च ॥ ८० ॥ . ते सभ्यजनाः अर्थिषु तत्समयागतानेकयाचकविषयेषु गुम्नांशुकानि द्रव्यवस्त्रादीनि ववर्षः। प्रददुरित्यर्थः । क इव । नभोम्बुवाहा इव । यथा श्रावणमेघाः क्षेत्रेषु विषयेषु अम्बूनि पानीयानि वर्षन्ति । वर्षाऋतोरतिपूतलानभोमासोपादानम् । ततो याचकदानानन्तरं

Loading...

Page Navigation
1 ... 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980