Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
काव्यमाला।
क्रियते इत्यनुष्ठानं किंचिदधृष्यमनधृष्यं वा कार्यादिनिर्माणं तस्य विधा प्रकारः एतावता मन्देहा नाम राक्षसास्तैः सार्धमुद्धतयुद्धक्रियां कर्म विदधाति करोतीत्येवंशीलस्य । यदुक्तं नैषधे प्रातवर्णने–'इह हि समयेषु व्रजन्त्युदवज्रतामभिरविमुपस्थानोत्क्षिप्ता जलाअलयः किल' अथ तद्वृत्तिः । अस्मिन्प्रातःसमयेऽवसरे सूर्यमुद्दिश्य उपस्थानोत्क्षिप्ता उपासनायामुद्धता जलाञ्जलय: उदवज्रतां जलरूपाशनित्वं प्रपद्यन्ते । एता. वता 'आपो वज्रीभूत्वा तानि रक्षांसि मन्देहान् अरुणद्विपे क्षिपन्ति' इति श्रुतेः । 'तिस्र: कोट्योऽर्धकोटी च मन्देहा नाम राक्षसाः । उदयन्तं सहस्रांशुमभ्ययुध्यन्त ते सदा ॥' इत्युक्तेः । अथ वा घोरां घूकान्धकारैः सोढुमशक्यामनुष्ठानविर्धा दिवसकिरणलक्षणां क्रियां कर्तुः । पुनः किं कुर्वतः । दोषाणां रात्रीणां धोरणी घातयतो निर्णाशयतः । 'प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिष्टम्भहिंसानिर्वापणालम्भनिसूद. नानि' इति हैम्याम् ॥
वश्राद्धसौधाहृतभक्तभोगाद्यभिग्रहान्साग्रहमग्रहीत्सः । श्रीबप्पभवितिशीतकान्तिरिव क्षितीन्द्रप्रतिवोधधुर्यः ॥ ८४ ॥ स सूरिः खश्राद्धानो निजश्रावकाणां तपापक्षीयगृहमेधिनां सौधाद्गहादाहृतस्यानीतस्य भक्तस्य आहारस्य भोगो भोजनमादिर्येषां तादृक्षानभिग्रहान्निषेधरूपानियमान् भकं भक्तस्य नो कल्प्युत इत्यादिकान् प्रत्याख्यान विशेषान् साग्रहमपरैर्वाचकप्रज्ञांशसाधुभिरतिविज्ञप्तोऽपि निर्बन्धादग्रहीजग्राह । क इव । श्रीबप्पभवितिशीतकान्ति रिव। यथा श्रीआममहेन्द्रप्रतिवोधविधायकवप्पभट्टिमूरिः खश्रावकनिकेतनानीतभक्तभोगनिषेधादिकानभिग्रहान् गृहीतवान् । किंभूतः। क्षितीन्द्रोऽकब्बरपातिसाहिरामनृपश्च । तस्य प्रतिबोधे खभतीकरणे धुयों धुरीणः । प्रतिबोधविधातेत्यर्थः ॥
जिनं हृदम्भोजविलासराजहंसायमानं प्रणयन्कदाचित् । विधाय बाह्येन्द्रियमौनमुद्रां ध्यानं स योगीन्द्र इव व्यधत्त ॥ ८ ॥
स सूरिः कदाचित्कस्मिन्नपि समये योगीन्द्रो मनोवचनकाययोगानां निरोधो विद्यते येषाम् । अथ वा यम-नियम-करण-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधि-लक्षणनामभिरष्टभिरङ्गयोंगोऽस्त्येषामिति वा योगिनस्तेषामिन्द्रः सर्वोत्कृष्टयोगिराजस्तद्वद्योगमार्गाधिरूढवद्धयानं कस्मिन्नपि चेतश्चिन्तिते विषये एकप्रत्ययसंततिकरणं प्रणिधानं व्यधत्त चकार । किं कृला। ब्राह्यानां स्पर्शन-रसन-घ्राण-नयन-श्रवणाख्यानां पञ्चानामिन्द्रि. याणां मौनेन खखव्यापारनिषेधेन मुद्रां चित्तैकाम्यं विधाय । किं कुर्वन् । हृदम्भोजे हृदयकमलकर्णिकायां विलासे क्रीडाकरणे राजहंसमिवाचरन्तं जिनं वीतरागं प्रणयन् कुर्वन् ॥
नीरन्ध्रपाथःपरिपूर्यमाणपर्जन्यपुञ्जोर्जितगर्जितं किम् ।। कदापि रुच्यश्चरणेन्दिरायाः खाध्यायसान्द्रध्वनितं दधार ॥ ८६ ॥
Loading... Page Navigation 1 ... 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980