Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 934
________________ १७ सर्गः] हीरसौभाग्यम् । श्रीफलानि नालिकेराणि तथा पूगानि क्रमुकाणि 'सोपारी' इति प्रसिद्धानि तेषां पूर्गः समूहैः कृत्वा प्रभावनां संमुखागतानामुपाश्रयागतानां च सकलबालवृद्धजनानामनिवारितदानं ददते स्म । च पुनः रूपकाणां नाणकैारीमहमुदीप्रमुखैः प्रभावना व्यधुः॥ - अन्येऽपि संघाः पुरपत्तनेभ्योऽभ्येत्याभजन्सूरिसहस्ररश्मिम् । अश्वादिदानानि ददुर्महेन्द्रा इव प्रमोदाद्वयवादसान्द्राः ॥ ८१ ॥ · अन्ये परेऽपि पुरपत्तनेभ्यः नवीननगरजीर्णदुर्गमङ्गलपुरवेलाकुलदेवपत्तनप्रमुखेभ्यो नगरेभ्यः संघाः श्राद्धवर्गा अभ्येत्यागत्य प्रमोदात्प्रभुपार्श्वे समेत्य सूरिघु सहसरश्मि दिवाकरमभजन्संसेवन्ते स्म । पुनर्महेन्द्रा नृपा इव ते अश्वास्तुरङ्गा भादौ येषां तानि द्रव्यांशुकादीनि दानानि ददुर्ददते स्म । किंभूताः । प्रमोदानामानन्दानामयवादेन असाधारणत्वेन सान्द्रा उपचिततनूलतिकाः ॥ आगृह्णतस्ताननुगृह्य लोकांस्तत्रांशुसंघोंऽशुमतीव तिष्ठन् । पर्जन्यकालोऽअमिवोन्नताख्यं व्यातन्तनीदुन्नतिमत्पुरं सः ॥ २ ॥ स सूरिसन्नताख्यं पुरम् उनानामनगरमुन्नतिमत् शोभासंपन्मयं व्यातन्तनीद्वितनोति स्म विशेषेण कृतवान् । क इव । पर्जन्यकाल इव । यथा वर्षासमयः अभ्रं मेघमुन्नतिमसमुन्नतं नीरभरैर्नम्रीभूतं व्यातनुते । स किं कुर्वन् । तत्रोन्नतनगरे तिष्ठन् स्थिति कुर्वन्। क इव । अंशुसंघ इव । यथा किरणगणोंऽशुमति भास्करे तिष्ठति। तत्र तिष्ठन् किं कृत्वा । तान् द्वीपोन्नतनगरसंवन्धिनो लोकान् श्राद्धजनाननुगृह्य तेषानुपरि अनुग्रहं • कृत्वा। तान्कि कुर्वतः । आगृह्णतः श्रीपूज्या अस्मदुपरि प्रसादं प्रणीय अत्रैव चतुर्मासी कुर्वन्तु इत्थमाग्रहं कुर्वतः ॥ इत्युनतनगरे चतुर्मास्यवस्थानम् ॥ घोरामनुष्ठानविधां विधातुरुग्रं तपस्तेज उदीयते स्म । . दोषालिमालम्भयतो व्रतीन्दोरिवोत्तराशां भजतो गभस्तेः ॥ ८३॥ व्रतीन्दोहरिसूरेरु परपाक्षिकैरसह्यं तपसां तेजो ज्योतिः प्रतापश्च उदीयते स्म प्रकटीवभूव । किंभूतस्य व्रतीन्दोः । घोरामपरेषां मन्दसत्त्वानां भयंकरामनुष्ठानविधां क्रियाप्रकारं विधातुः विदधातीत्येवंशीलस्य । शीले तृञ् कतुर्वा तृवुणौ । किं कुर्वतः । दोपाणामपगुणानां दान-लाभ-वीर्य भोग-उपभोगाख्या नाम पश्चान्तरायकर्माणि हास्यरति-अरति-भय-जुगुप्सा-शोक-काम मिथ्याज्ञान-निद्रा-विरति-राग-द्वेषा इत्येतेषामष्टादशसंख्याकानां दोषाणामालिं पतिमालम्भयतो मूलादुच्छिन्दतो निघ्नतः । पुनः किंभूतस्य । उत्तरामग्रिमां मोक्षलक्षणामाशा वाञ्छां भजतः श्रयतः । तेजः कस्येव । गभस्तेरिव । स्था उत्तराशां कौबेरी दिशं भजतः सेवमानस्य दिवसपतेरुग्रं जनैरसह्य तपोवत्तेजः । अथ वा तपते संतापयति जनमध ऊर्श्व चेति तपस्तादृशं तेजो ज्योतिः प्रतापो वा उदीयते प्रकटीभवति। किंभूतस्य । घोरां दैत्यैरसहनीयामनुष्ठीयते खबलवीर्यपुरुषाकारैः ११०

Loading...

Page Navigation
1 ... 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980