Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 924
________________ १७ सर्गः] हीरसौभाग्यम् । निष्ट । कमात्प्रभोः प्रभावात् श्रीमत्पार्श्वनाथमाहात्म्यातिशयात् । किमिव । इन्द्रजालमिव । यथा कुहकं क्षणाददृश्यीभावं भजेत् । 'इन्द्रजालं तु कुहकम्' इति हैम्बाम् । स सागरधनी पेटां पार्श्वनाथप्रतिमासत्कमञ्जूषां चन्दननृगमदधनसारादिभिरभ्यच पूजयित्वा पुरः पेटाया अग्रे भोगादि कृष्णागुरुकुन्दरुष्कतुरुष्कायुत्क्षेपणमादिशब्दादलिवाकुलादिकं च व्यधत्त विदधाति स्म । कृतवानित्यर्थः । स किंलक्षणः । चमत्कृतः जलदानिलाद्युपसर्गविलयादि विलोक्य खहृदये विस्मितः ॥ इत्यकाण्डोद्भूतोपसर्गप्रशमनम् ॥ ततोऽनुकूलैः पवनैः पयोनिधौ प्रवर्तितस्तव्यवहारिपोतः । मत्तद्विपः सादिभिरध्वनीवालानं सुखं द्वीपपुरं प्रपेदे ॥ ४ ॥ ततो विघ्नापगमनानन्तरं तद्वयहा रिपोतः तस्य सागरनाम्नो व्यवहारिणो महेभ्यस्य पोतो यानपात्रं सुखं यथा स्यात्तथा द्वीपपुर द्वीपनाम नगरं प्रपेदे प्राप प्रातः द्वीपवन्दिरे सुखेनागतः किंलक्षण: पोतः । पयोनिधी खस्थीभूते समुद्रे अनुकूलैः सुखप्रवृत्तिकारिभिः पवनैर्वातैः प्रवर्तितः प्रेरितः। 'प्रेरणं प्रवर्तनम् । तत्र तुबादयः' इति सारखतव्याकरणम् । क इव । मत्तद्विप इव । यथा मदोद्धतो हस्ती सादिभिराधोरणैः अध्वनि मार्गे प्रवर्तितः सुखमालानं प्रपद्यते ॥ उत्तीर्य तर्याश्च बलिं विकीर्याप्येतामुपादाय सुतामिवाब्धेः । इहाह्वयन्कि हरितां महेन्द्रान्पार्श्व प्रणन्तुं घनतूररावैः ॥ ४८ ॥ भजन्नपाभ्यर्णमथार्णवीयं वस्तूपदीकृत्य निवेद्य वृत्तम् । पेटा डुढौके स्म पुरः क्षितीन्दोः रुजां चिकित्सामिव तां द्विधापि ॥४९॥ : अथ द्वीपबन्दिरे समागमनानन्तरं स सागर आढ्यः क्षितीन्दोरजयगतीरजनिजानेः पुरः पुरस्तादने पेटां कल्पपादपपूर्णनिर्मितां मञ्जूषां डुढौके प्राभृतीचकार । उत्प्रेक्ष्यते-द्विधापि द्वाभ्यां बाह्यान्तरङ्गलक्षणाभ्यामपि रुजामन्तरङ्गरोगाणामष्टकर्मणां बाह्यरोगाणां ज्वरादीनां चिकित्सां रुक्प्रातक्रियामिव रोगापहारिणी औषधादिविधा । किं कृत्वा इडीके। आर्णवीयमर्णवसंबन्धि पयोधिमध्यगतदीपोत्पन्नं वस्तु समुद्रान्तजातं • च वस्तु मुक्ताफलादिकमुपदीकृत्य ढोकयित्वा । च पुन: वृत्तं पद्मावतीप्रकाशितश्रीपार्श्वप्रतिमाया यानपात्रान्तरानयनानन्तरं खोपसर्गगमनादिचरित्रं निवेद्य कथयित्वा । सागरः किं कुर्वन् । नृपाभ्यर्णमजयराजसमीपं भजन्नाश्रयन् । कैः । घनतूररावैः घनानामनेकजातीयानां तूराणां वादित्राणां रावैः शब्दैः । अथ वा शब्दाद्वैतीभावं विद. धानैः सान्द्ररातोद्यनादैः । उत्प्रेक्ष्यते-विविधवाद्यनादैरिह द्वीपबन्दिरे पार्श्व प्रणन्तुं भविष्यदजयाभिधानपार्श्वनाथप्रतिमा नमस्कर्तुम् हरितां महेन्द्रान्दशदिक्पालकान् किमाद्वयन्नाकारयन्निव नृपान्तिकं श्रयन् । किं कृत्वा । तर्या वेडाया उत्तीर्य स्खयानपात्रादवरुह्य तीरभूमावागत्य । पुनर्वलि दशदिक्षु करपूपिकाचणककुल्माषादिकं विकीर्य

Loading...

Page Navigation
1 ... 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980