________________
८५६
काव्यमाला।
तमालास्तापिच्छाः, येषां तमालपत्राणि भवन्ति यत्पत्राणि पूर्वदेशे दक्षिणदेशे कर्णाभरणीभवन्ति वा । यदुक्कं नैषधे-'श्रवणतमालदलाङ्करं शशिकुरङ्गमुखे सखि निक्षिप । किमपि तुन्दलितः स्थगयत्यमुं स यदि तेन तदुच्छ्रसिमि क्षणम् ॥' इति विरहा. वस्थायां चन्द्रोदये दमयन्तीवाक्यम् । तालास्ताडतरवो गुर्जरेषु प्रसिद्धाः । दक्षिणदिशि च राजताला अपि भवन्ति येषां पत्रैः पुस्तकानि लिख्यन्ते तैः। तथा कदम्बनीपा धाराकदम्बा धूलीकदम्बा वा । द्वये अपि चम्पूटिप्पनके प्रोकाः सन्ति । जम्बीराः प्रसिद्धाः। सह निम्बेन पिचुमन्देन 'नींबडा' इति प्रसिद्धेन वर्तन्ते यास्तादृश्यः, जम्बू श्यामफलाः प्रसिद्धाः । अथ वा निम्बजम्बूभिः स हितैः सर्जा देवदारवः । अर्जुनाः शास्त्रे देवविशेषे वार्बुदसमीपे च प्रसिद्धाः तैः, तथा अञ्जना वृक्षविशेषाः, वझुला वानीराः, तथा कङ्केलयः अशोकाः केसरा नागकेसरा एतैर्वृक्षर्या शत्रुजया सरित् उपास्यते सर्वकालं सेव्यते। किंभूता । यावन्ति त्रैलोक्यलोकवर्तीनि सर्वजातीयानि वा मनसामभीप्सितानि कामितानि तेषां दाने प्रपूरणे दक्षा कुशला। कामितकामधेनुरित्यर्थः । उत्प्रेक्ष्यते-आत्मसुखेषु विषये खःसालतायाः कल्पद्रुमभावस्य स्पृहया वाञ्छया वृक्षलक्षैः संसेव्यते । कामितकामदुघां शत्रुजयां सरितं संसेव्य वयं कल्पवृक्षभावं भजाम इतीच्छयैव ॥ युग्मम् ॥
कदा पुनर्दर्शनमस्य भावि ध्यायन्निदं खीयहृदा मुनीन्दुः । तीर्थ स तीर्थेशमिव प्रणम्य पथि प्रतस्थे प्रथितावदातः ॥ २५ ॥ स मुनिहींरसूरीन्द्रस्तीर्थेशं जिनमिव शत्रुजयाद्रिं प्रणम्य ललाटघटितकुड्मलीकृतकरकमलो नमस्कृत्य पथि द्वीपोन्नतपुरपद्धतौ प्रतस्थे प्रचचाल । स किंलक्षणः । प्रथितो जगद्विख्यातोऽवदातः अकबरसाहिप्रतिबोधनलक्षणं चरितं यस्य । स किं कुर्वन् । इ. दमत्रैव वृत्ते प्रोच्यमानमेतत्खहृदा निजमनसा ध्यायन् चिन्तयन् । इदं किम् । यदस्य तीर्थाधिराजस्य पुनर्द्वितीयवारं कदा कस्मिन्काले मम दर्शनमवलोकनम् । यात्रा इत्यर्थः । भावि भविष्यति ॥ मेरूनिव क्वापि सुवर्णवान्कुत्रापि रौप्यानिव शर्वशैलान् । .
अप्याश्मगर्भानिव विन्ध्यभूधान्सिद्धाद्रिकूटान्पथि दृष्टवान्सः ॥२६॥ पथि मार्गे सिद्धाद्रेः पुण्डरीकपर्वतस्य कूटान् शिखराणि । कूटशब्दः पुनपुंसकलि. गयोः । यथा-'ध्वजमलयजकूटाः कालकूटारकूटी' इति लिङ्गानुशासने । दृष्टवान्पश्यति स्म । किंभूतान् कूटान् । क्वापि कुत्रापि प्रदेशे सुवर्णैः शोभनवर्णैर्वान् वर्णनीयान् । कानिव । मेरूनिव । मेरवः किंभूताः । सुवर्णैः काश्चनैः वर्ष्याः प्रशस्याः । पुनः कुत्रापि स्थाने रौप्यान् रूप्याणामिमे रौप्याः। रजतमयानित्यर्थः। कानिव। शर्वशैलानिव। यथा कैलाशाः कलधौतखरूपा भवन्ति । 'रजताद्रिस्तु कैलाशः' इति हैम्याम् । अपि पुनः क्वचन भूभागे आश्मगर्भान् अश्मगर्भाणां हरिन्मणीनामिमे । मरकतमणिमयानित्यर्थः । कानिव । विन्ध्यभूनानिव । विन्ध्योपमानं श्यामवर्णत्वात् । श्यामनीलवर्णयोः