Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८५४
काव्यमाला । णानामनेकानां विविधजातीयानां बहूनां वा पौराणां नागरिकलोकानां पुरंध्रीणां कामिनीनां पुञ्जो व्रजो व्यराजद्भाति स्म । उत्प्रेक्ष्यते-श्रमणानां साधूनां मध्येऽवनीन्दोः क्षोणीयचन्द्रस्य राज्ञः हीरसूरीश्वरस्य पादाम्बुजं चरणारविन्दं नमश्चिकी'नमस्कर्तुमिच्छुः । 'तावदेव ऋषिरिन्द्रदिक्षुः' इन्द्रं द्रष्टुमिच्छुः इति नैषधे । वारिसुरीभरः किं जलदेवतासंदोह इव ॥ पतिव्रतापीश्वरवाधिभर्तृद्वयेति कौलीनमपाचिकीर्षुः । शत्रुजयं सेवितुमात्मनागान्मिषेण यस्या हरशेखरेव ॥ १८॥ या सरित् भातीति संबन्धः । उत्प्रेक्ष्यते-यस्याः शत्रुजयाया नद्या मिषेण कपटेन आत्मना खकीयरूपेणैव शत्रुजयं महातीर्थाधिराजं सेवितुं हरशेखरा गङ्गा इवागादागता । किं कर्तुमिच्छुः । इत्यमुना प्रकारेण कोलीनं खकीयापवादम् । 'जनप्रवादः कोलीनं विगानं वचनीयता' इति हैम्याम् । अपाचिकीर्षुः निराकर्तुमिच्छुः । इति किम् । खकान्तं विना परं पुमांसं मनसा वचसा कायेन खप्नेऽपि कदाचिदपि न कामयते इति सा पतिरेव व्रतं सतीत्वव्यञ्जको नियमः शीलं यस्याः सा पतिव्रता सती ईदृश्यतोऽपि सार्धाङ्गहारिपार्वतीतोऽपि अतिप्रमाधिक्येन खशिरस्यासेपितापि मन्दाकिनी ईश्वरः शंभुः वार्धिः समुद्रः एतल्लक्षणं भर्तृद्वयं वल्लभद्वन्द्वं यस्याः सा द्वयोः 'पुरुषयोः पार्श्वे या वनिता व्रजति सा असती व्यभिचारिण्येव भवति सा सती सर्वथापि नोच्यते । अथ ईश्वरं भिक्षुकं मुक्त्वा समुद्रं रत्नाकरं भजते । तदियं पुंश्चली एव न पतिव्रता इति खनिन्दा निराकर्तुम् ॥
या शान्तनोर्वीमघवाङ्गजानां महामयापायवतां चतुर्णाम् । चिकित्सकीवात्र महीन्द्रमुक्तिश्रीसंगमेऽपि प्रतिभूरिवाभूत् ॥ १९ ॥ या शत्रुजया नदी अत्र जगति महान्तः अतिशायिक्लेशाषवादायशोविधायिनो ये आमयाः कुष्ठादिदुष्टरोगास्त एवापायाः कष्टानि विद्यन्ते येषां ते महामयापायवन्तस्तेषां चतुर्णा चतुःसंख्याकानां शान्तनुर्नामा इक्ष्वाकुवंशीय उवींमघवा महीमहेन्द्रस्तस्याङ्गजानां पुत्राणां चिकित्सकीवागदंकारिकेव अखिलव्याधिमूलोच्छेदकारिणीवाभूत् जायते स्म । अपि पुनस्तेषां शान्तनुनन्दनानां महीन्द्रमुक्तिश्रीसंगमे राज्यलक्ष्मीस्तथा मोक्षलक्ष्मीस्तयोः संगमे मिलने अङ्गीकरणे प्रतिभूः साक्षिणीव संजाता । अयं संबन्धः शत्रुजयामाहात्म्ये सविस्तरोऽस्तीति ॥ तीर्थेषु पाथःप्रथितेषु गत्या पृथक्पृथक्खिद्यति लोक एषः । शत्रुजयेतीव विचिन्त्य सर्वतीर्थावतारा विधिना व्यधायि ॥ २० ॥ सर्वेषां भूर्भुवःखस्नयीभवानां नदीनदीपतिकूपपुष्करिणीदीर्घिकाहदकुण्डतडागपुष्करप्रभृतीनां तीर्थानां पुण्यस्थानकानामवतारोऽवतरणमनुप्रवेशो यस्यां तादृशी शत्रुजयानानी निरिणी विधिना प्रजापतिना व्यधायि विहिता । उत्प्रेक्ष्यते-इत्यत्रैव वृत्ते
Loading... Page Navigation 1 ... 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980