Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 906
________________ १६ सर्गः ] हीरसौभाग्यम् । ८४५ टिभिः शतलक्षाभिः कलितः सहितः । तथा कोटिशब्दो दुखः स्त्रीलिङ्गवा चिवदाकारान्तः । यदुक्तम् —' कियती पञ्चसहस्री कियती लक्षा च कोटिरपि कीयती । औदार्योनतमनसां रत्नवती वसुमतीं कियती ॥' इति सूक्ते लक्षाशब्दः । तथा लिङ्गानुशासने'मानो लक्षं माने वाच्यं लक्षशब्दः स्त्रीक्लीवलिङ्गयोः लक्षं लक्षा च' इति लिङ्गानुशासने । श्रिया प्रथमचक्रिप्रथमपुत्र प्रथमतीर्थ कृत्प्रथमगणभृल्लक्ष्म्या युतः पुण्डरीकनामा गणी श्रीऋषभदेवचतुरशीतिगणभृत्सुमुख्यो गणधरः अत्र शत्रुंजयाद्रौ चैत्र्याम् । चैत्रेण मासेन युक्ता पौर्णमासी चैत्रीत्युच्यते । चैत्रपौर्णमास्यामित्यर्थः । मुदा अनन्तानन्दसंदोहमेदुरतया मोक्षमसाधयत्साधयामास । मुक्ति जगामेत्यर्थः । क इव । जयीव । यथा जयनशीलो राजा प्रमोदेन महीमासमुद्रान्तमेदिनीं साधयति । तत इह नगे श्रीशत्रुंजयपर्वते यत्किचिद्दानोपवासादिकमत्र दिने अस्यां चैत्र्यां पूर्णिमायां जनैर्भविकलोकैः क्रियते विधीयते । तत्साधुसाध्वीविश्राणनोपवसनादिकमत्र चैत्र पूर्णिमावासरे एकस्मिन्नेवाहनि पञ्चकोटिमुनीनां मुक्तिगमनकारणेन कोटिभिः शतलक्षाभिः गुण्यते इति कोटिगुणितं स्यात् । किमिव । दानमिव । यथा सुपात्रे दानं कोटिगुणं भवेत् । यदुक्तम् - ' दानपात्र - मधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि' इति नैषधे ॥ शाश्वताद्रिरिवानन्तसमयस्थायुकोऽस्त्ययम् । कालक्रमात्पुनर्धत्ते शशीवोपचयक्षयौ ॥ १३५ ॥ · अयं शत्रुंजयाद्विर्न विद्यते कदाप्यन्तोऽवसानं यस्य तावन्तं समयं कालं यावत्ति - छतीत्येवंशीलः स्थायुकः । क इव । शाश्वताद्रिरिव । यथा अनश्वरो मेरुप्रमुखशैलः । जातिवाचित्वादेकवचनम् । अनन्तं कालं यावत्स्थास्नु रास्ते । परमस्मिन् शत्रुंजये एकोऽयं विशेषः । कालक्रमादुत्सर्पिण्यवसर्पिणी समयपरिपाठ्या उपचयक्षय वृद्धि - क्षणभाव असौ धत्ते । क इव । शशीव । यथा चन्द्रः शुक्लकृष्णपक्षक्रमादुपचयक्षीणते धत्ते । यथा शशी शुक्ले पक्षे वर्धते कृष्णे च हीयते, तथा शत्रुंजयोऽप्युत्सर्पिण्यां वृद्धिं भजते अवसर्पिण्यां क्षणं क्षयमयते । किं च यथा कलावान्कलामात्रमेवावशिध्यते तथा विमलाद्भिरपि सप्तहस्तप्रमाणो मुण्डकमानोऽवशिष्यते ॥ तालध्वजढङ्काभिधकदम्बलौहित्यरैवताद्यचलाः । विलसन्महिमानोऽमी यत्प्रतिकाया इवाभान्ति ॥ १३६ ॥ अमी प्रत्यक्षाः संनिधौ निरीक्ष्यमाणाः तालध्वजः, तथा ढङ्क इत्यभिधा ययोस्तौ 'तस्ताझो ढंको' इति नाम्ना प्रसिद्धी, तथा कदम्बः, तथा लौहित्य:, तथा रैवत्य उज्जयन्तः कोलम्बो लोहिच्चो गिरिनारि इति नाम्ना लोकप्रसिद्धाः । एते पञ्चापि पर्वता आदौ कृत्वा येषां ते अचला: ‘टुंक' इति ख्याताः पर्वता यत्प्रतिकाया यस्य शत्रुंजयाद्रेः प्रतिबिम्बानीवाभान्ति आ सामस्त्येन शोभन्ते । किंभूताः । विलसन् त्रैलोक्ये स्फूर्तिमत्तां कलयन् महिमा माहात्म्यं येषामेते पञ्चापि गिरयः शत्रुंजयाद्रेर्मुख्यशिखराणि विमलाचलतुल्य माहात्म्यानि सन्ति ॥

Loading...

Page Navigation
1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980