Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 911
________________ ८५० काव्यमाला। स व्रतीन्द्रो हीरसूरिः द्वीपजनवजेन द्वीपबन्दिरसत्कसंघलोकनिकरण खपत्तनं सामान्यतो नगराभिधानं पत्तनम् । यथा हैम्यां समुदितान्येव नगरनामानि-नगरी पू: पुरीद्रङ्गं पत्तनं पुटभेदनम्' इति । विशेषतस्तु 'पत्तनं रत्नयोनिः' इति द्वीपाभिधानं निजनगरं पावयितुं पवित्रीकारयितुं प्रार्थितो याचितः । आगृहीत इत्यर्थः । क इव । केशीव । यथा चित्रमिति पदमादौ धुरि यस्य तेन चित्रादिना सारथिना श्रावस्त्यां नगर्या राजकार्यार्थ गतेन तस्यैवोपदेशात् श्राद्धीभूतेन चित्रसारथिना केशीनामा वशीशिता मुनीन्द्रो गणधरः श्वेतविका इत्यभिधानं नाम यस्य तादृशं खपत्तनं पावयितुं पावनं निर्मापयितुं प्रार्थितः । आगृहीत इत्यर्थः ॥ निश्चिक्य चित्तेऽजयपार्श्वभर्तुर्यात्रां स शजयवद्रतीन्द्रः। कथंचिदप्याग्रहमस्य मेने सेनेशवत्सोऽपि ततः प्रतस्थे ॥ ६ ॥ स यतीन्द्रो हीरसूरिः कथंचिन्महता कष्टेन अस्य द्वीपबन्दिरस्य संघस्याग्रहं मेने मा. नयति स्म । किं कृत्वा । अजयनाम्ना दशरथनृपित्रा राज्ञा स्थापितस्याजयनाम्नः अं. धुना 'अद्गारा' इति प्रसिद्धस्य पार्श्वभर्तुः श्रीपार्श्वनाथस्य यात्रां प्रणमनं चित्ते खमनसि निश्चिक्य अवश्यं मया अजयपार्श्वनाथयात्रा कार्येति निश्वयं कृत्वा । किंवत् । शत्रुजयवत् । यथा मया शत्रुजययात्रा कृता, तथा अझारापार्श्वनाथस्य मया यात्रा कर्तव्येति विशेषः । अपि पुनः स सूरिरपि सेनेशवत्सेनापतिरिव राजेव वा ततः पादलिप्तपुरात्प्रतस्थे द्वीपबन्दिरं प्रति प्रचलति स्म ॥ इति पादलिप्तपुरात् द्वीपबन्दिरं प्रति प्रस्थानम् ॥ तत्यक्रमोपस्थितयात्रिकाणां तदावलीभिर्ववले गिरीन्द्रात् । अम्भोधिवेलाभिरिवोपकण्ठगिरेगंभीरारवबन्धुराभिः ॥ ७ ॥ स चासौ प्रक्रमश्च प्रस्तावस्तत्प्रक्रमः शत्रुजयाद्रियात्राकरणसमयः । 'वेला वाराव. वसरः प्रस्तावः प्रक्रमान्तरम्' इति हैम्याम् । तत्रोपस्थितानामागतानाम् । 'उपस्थिता शोणितपारणा मे' इति रघौ। तथा 'आगमने गमनार्थाः समभ्युपाङ्भ्यः पराः कथिताः । आपतति चोपतिष्ठत्युपनमति तथोपसीदति च ॥ इति क्रियाकलापे । यात्रिकाणां शत्रुजययात्राकारकाणामावलीभिः श्रेणीभिस्तदा हीरसूरेीपबन्दिरं प्रति प्रस्थानावसरे गिरीन्द्राद्विमलाचलाद्ववले पश्चाद्याधुटितम् । खखपुरं प्रति प्रस्थितमित्यर्थः । काभिरिव । अम्भोधिवेलाभिरिव । यथा समुद्रस्य प्रवृद्धपयःकल्लोलमालामिरुपकण्ठगिरेः समीपपर्वतात्पश्चाद्वलित्वा गम्यते । किंभूतः । गभीरैर्मधुरैरारवैस्तरङ्गध्वनितैर्बन्धुराभिर्मनोज्ञाभिः यात्रिकश्रेणिभिरपि श्रीशत्रुजयाद्रिहीरसूरिमहिमगुणप्रशंसासंस्तवनादिगम्भीरनिनादैरभिरामाभिः ॥ मुहुः प्रसर्पन्पथि कण्ठपीठं विभुज्य पारीन्द्र इवालुलोके । उवाह सौहित्यमसौ न दशै दशै पुनः सिद्धधराधरं तम् ॥ ८॥

Loading...

Page Navigation
1 ... 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980