________________
८५०
काव्यमाला।
स व्रतीन्द्रो हीरसूरिः द्वीपजनवजेन द्वीपबन्दिरसत्कसंघलोकनिकरण खपत्तनं सामान्यतो नगराभिधानं पत्तनम् । यथा हैम्यां समुदितान्येव नगरनामानि-नगरी पू: पुरीद्रङ्गं पत्तनं पुटभेदनम्' इति । विशेषतस्तु 'पत्तनं रत्नयोनिः' इति द्वीपाभिधानं निजनगरं पावयितुं पवित्रीकारयितुं प्रार्थितो याचितः । आगृहीत इत्यर्थः । क इव । केशीव । यथा चित्रमिति पदमादौ धुरि यस्य तेन चित्रादिना सारथिना श्रावस्त्यां नगर्या राजकार्यार्थ गतेन तस्यैवोपदेशात् श्राद्धीभूतेन चित्रसारथिना केशीनामा वशीशिता मुनीन्द्रो गणधरः श्वेतविका इत्यभिधानं नाम यस्य तादृशं खपत्तनं पावयितुं पावनं निर्मापयितुं प्रार्थितः । आगृहीत इत्यर्थः ॥
निश्चिक्य चित्तेऽजयपार्श्वभर्तुर्यात्रां स शजयवद्रतीन्द्रः। कथंचिदप्याग्रहमस्य मेने सेनेशवत्सोऽपि ततः प्रतस्थे ॥ ६ ॥ स यतीन्द्रो हीरसूरिः कथंचिन्महता कष्टेन अस्य द्वीपबन्दिरस्य संघस्याग्रहं मेने मा. नयति स्म । किं कृत्वा । अजयनाम्ना दशरथनृपित्रा राज्ञा स्थापितस्याजयनाम्नः अं. धुना 'अद्गारा' इति प्रसिद्धस्य पार्श्वभर्तुः श्रीपार्श्वनाथस्य यात्रां प्रणमनं चित्ते खमनसि निश्चिक्य अवश्यं मया अजयपार्श्वनाथयात्रा कार्येति निश्वयं कृत्वा । किंवत् । शत्रुजयवत् । यथा मया शत्रुजययात्रा कृता, तथा अझारापार्श्वनाथस्य मया यात्रा कर्तव्येति विशेषः । अपि पुनः स सूरिरपि सेनेशवत्सेनापतिरिव राजेव वा ततः पादलिप्तपुरात्प्रतस्थे द्वीपबन्दिरं प्रति प्रचलति स्म ॥ इति पादलिप्तपुरात् द्वीपबन्दिरं
प्रति प्रस्थानम् ॥
तत्यक्रमोपस्थितयात्रिकाणां तदावलीभिर्ववले गिरीन्द्रात् । अम्भोधिवेलाभिरिवोपकण्ठगिरेगंभीरारवबन्धुराभिः ॥ ७ ॥ स चासौ प्रक्रमश्च प्रस्तावस्तत्प्रक्रमः शत्रुजयाद्रियात्राकरणसमयः । 'वेला वाराव. वसरः प्रस्तावः प्रक्रमान्तरम्' इति हैम्याम् । तत्रोपस्थितानामागतानाम् । 'उपस्थिता शोणितपारणा मे' इति रघौ। तथा 'आगमने गमनार्थाः समभ्युपाङ्भ्यः पराः कथिताः । आपतति चोपतिष्ठत्युपनमति तथोपसीदति च ॥ इति क्रियाकलापे । यात्रिकाणां शत्रुजययात्राकारकाणामावलीभिः श्रेणीभिस्तदा हीरसूरेीपबन्दिरं प्रति प्रस्थानावसरे गिरीन्द्राद्विमलाचलाद्ववले पश्चाद्याधुटितम् । खखपुरं प्रति प्रस्थितमित्यर्थः । काभिरिव । अम्भोधिवेलाभिरिव । यथा समुद्रस्य प्रवृद्धपयःकल्लोलमालामिरुपकण्ठगिरेः समीपपर्वतात्पश्चाद्वलित्वा गम्यते । किंभूतः । गभीरैर्मधुरैरारवैस्तरङ्गध्वनितैर्बन्धुराभिर्मनोज्ञाभिः यात्रिकश्रेणिभिरपि श्रीशत्रुजयाद्रिहीरसूरिमहिमगुणप्रशंसासंस्तवनादिगम्भीरनिनादैरभिरामाभिः ॥ मुहुः प्रसर्पन्पथि कण्ठपीठं विभुज्य पारीन्द्र इवालुलोके । उवाह सौहित्यमसौ न दशै दशै पुनः सिद्धधराधरं तम् ॥ ८॥