________________
१७ सर्गः] हीरसौभाग्यम् ।
८५१ असौ सूरिः पथि श्रीश@जयशैलसंबन्धिवर्तिमार्गे प्रसर्पन् प्रचलन् मुहुर्वारंवारं कण्ठपीठं गलकंदलं विभुज्य वक्रीकृत्य । 'गिरा विभुरि विभुज्य कण्ठम्' इति नैषधे । आलुलोके । अर्थाद्विमलाचलं विलोकयति स्म। क इव । पारीन्द्र इव । यथा केसरी अग्रे गच्छन् मुहुः पश्चात्कण्ठं वलयित्वा विलोकते । पुनरन्यार्थे असौ सूरिस्तत्रैवालोक्ये. ऽप्यद्वैततीर्थतया प्रख्यातं पूर्वव्यावर्णितं वा सिद्धधराधरं शत्रुजयादि दर्श दर्श पुनः पुनदृष्ट्वा दृष्ट्वा सौहित्यं तृप्तिम् । 'तृप्तिः सौहित्यमाघ्राणः' इति हैम्याम् । न उवाह न वहते स्म न प्राप । सरागं सरणरणकं च लोचनाभ्यां सादरमवलोकयन्नेव तृप्ति प्राप्नोति स्म ॥
षड्भिः काव्यैः क्रियापदेषु सत्खपि सूरेनिसविकल्पानामेकार्थनिष्ठतया कुलकमेवावधीयते
एतां धरित्री त्रिजगत्पवित्रीकौं सवित्रीमिव शर्मदात्रीम् ।
खजन्मभूमीमिव भूस्पृशो मे मोक्तुं मनो नोत्सहते कथंचित् ॥९॥ __एतां श्रीशत्रुजयसंबन्धिनी धरित्री पृथिवीं मोक्तुं विहातुं मे मम मनो मानसं कथंचित्केनापि प्रकारेण महता कष्टेन वा नोत्सहते नोत्साहं कुरुते न प्रगल्भते । नोद्यम निर्मातीत्यर्थः । 'उत्साहः प्रगल्भता । अभियोगोद्यमौ प्रौढिः' इति हैम्याम् । इमां भूमी मोक्तुं न शक्नोमीत्यर्थः । कामिव । खजन्मभूमीमिव । यथा भूस्पृशो मनुष्यस्य निजजन्मसंबन्धिनीमवनीं त्यक्तुं चेतो नोद्यच्छते । किंभूतां धरित्रीम् । त्रिजगतां तात्स्य्यात्तद्यपदेशात्रैलोक्यलोकानां पवित्रीकी पावनीकारिकाम् । पुनः किंभूताम् । सवित्री जननीमिव । शर्मणां निःशेषसुखानां दात्री दायिकाम् ॥ कदम्बलौहित्यकढङ्कतालध्वजादिकूटैः कटकैरिवैषः । सगर्वगन्धर्वगजेन्द्रगर्जेः श्रितोऽस्ति शत्रुजयभूधरेन्द्रः ॥ १० ॥ श्रीशत्रुजयनामा भूधराणां पर्वतानां भूपानामिन्द्रः खामी त्रिभुवनभवनप्रवर्तमानसमस्तप्रशस्तमहातीर्थाधिराजत्वाच्चक्रवर्तित्वाच्च अस्ति विद्यते । साक्षात्प्रकारेण दृश्यते इत्यर्थः । किंभूतः । सगर्वा अद्वैतगीतकलाभिः पवनातिपातिगतिवेगा. तिशयवशेन साहंकाराः गन्धर्वाः देवगायनाः । गन्धर्वजातिदेवविशेषाः वर्णमणिमण्डितशिखरोदारकंदरोदरनिषण्णाः खशशिमुखीसखा हाहादयः पारवासुरा यदुणान् गायन्तीत्यर्थः । तथा गन्धर्वा वन्यवाजिनश्च येषु शिखरेषु तथा गजेन्द्रा गन्धहस्तिनो भद्रादिजातिगजा वा तेषां गर्जा बंहितानि सजलजलदधीरगम्भीरध्वनयो येषु तादृशैः कदम्बनामा तथा लौहित्याहस्तथा कढङ्काख्यस्तथा तालध्वजाभिधानाः शैलास्ते आदौ प्रथमं येषां तादृशैरष्टोत्तरशतमितैः कूटैः शिखरैः श्रितः सेवितः । उत्प्रेक्ष्यते-कटकैः सैन्यैरिव शत्रुजयाभिधानः सार्वभौमोऽपि बलैः कलितो भवेत् । सैन्यैरपि साभिमानः तुरङ्गमगजगोंर्जितैः भूयते अथ वा कटकैरिवेत्यभिधेयम् ॥