________________
८५२
काव्यमाला । .... प्रपूज्य पुष्पैः किसलैः फलैश्च यो वृक्षलक्षैः क्षितिभृन्महेन्द्रः। उपास्यते त्यक्तुमिवात्मवानस्पत्यं गतिं वल्गुमिवाधिगन्तुम् ॥ ११ ॥ यो विमलाभिधानः क्षितिभृन्महेन्द्रः गिरिराजः वृक्षाणां दुमाणां लक्षैः शतसहस्रसंख्यैः उपास्यते सेव्यते । किं कृत्वा । प्रपूज्य प्रकर्षेण भावशुद्ध्या पूजयित्वा । कैः । पुष्पैः खकीयकुसुमैः । च पुनः कैः । किसलै: पल्लवैः । च पुनः फलैः आत्मीयशस्यैः । खजा. तीयप्रवालपत्रप्रसूनफलैरभ्यर्थेत्यर्थः । उत्प्रेक्ष्यते-खवानस्पत्यं निजां वनस्पतिता खकीयतरुभावम् । काष्ठत्वमिति यावत् । त्यक्तुं विहातुमम् । अथ पुनरुत्प्रेक्ष्यते-वल्गुं मनोहरा स्वर्गादिकां गतिमधिगन्तुं प्राप्नुमिव । 'अधिगत्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमात्ततः' इति नैषधे । 'अधिगत्य प्राप्य' इति तद्वत्ती॥
एते मिथः प्रीतिपरीतचित्ताः सिंहेभमुख्या अपि मुक्तवैराः । तिर्यग्भवेऽपि स्पृहयेव सिद्धेः सिद्धाचलेन्द्र परिशीलयन्ति ॥ १२ ॥
एते प्रत्यक्षसूरिणा दृग्गोचरीक्रियमाणाः सिंहेभमुख्याः केसरिकुञ्जरादिकाः अर्थाद्वनजीवाः सिद्धाचलेन्द्र परिशीलयन्ति सेवन्ते शत्रुजयपर्वतपुरंदरं तथा सिद्धो मन्त्रतत्रादिसिद्धिमानचलेन्द्रनामा कोऽपि पुरुषस्तमपि सिद्धयभिलाषुकाः भजन्ते । किंभूताः। मिथः परस्परमाजन्मप्रतिबद्धमपि मुक्तं सर्वथापि मनोवाकायैस्त्यक्तं वैरं विरोधो यैः । अत एव पुनः किंभूताः । मिथोऽन्योन्यं प्रीत्या स्नेहेन परीतं व्याप्तं चित्तं मनो येषाम् । सिद्धानां तपखिनां च प्रभावादिदमपि घटते । यदुक्तम्-'सिंही सारङ्गशावं स्पृशति सुतधिया द्वीपिनी तर्णकं गौर्मार्जारी मूषकार्भ रमयति नकुली व्यालबालं प्रमोदात् । मातङ्गी कुञ्जरारि चटकशिशुमथो पत्रिणी यत्र सत्त्वा आजन्मद्वेषिणोऽपि प्रधति सखितां तीर्थराजप्रभावात् ॥' इति । उत्प्रेक्ष्यते-तिर्यग्भवेऽपि तिरश्चामप्यवतारे जन्मनि सिद्धर्मोक्षस्य स्पृहया वाञ्छयेव एवमन्यापि सेवनं सिद्धेः काया ॥ .
धात्रात्र विश्वाचलचारिमश्रीः पिण्डीकृतैकत्र दिदृक्षतेव। . इत्यूहमानेन गिरीन्द्रलक्ष्मी समीक्षमाणेन मुनीश्वरेण ॥ १३॥ शत्रुजयोर्वीधरसंनिधाने शत्रुजया शैवलिनी न्यभालि । परांहसा खं मलिनं विभाव्य पुत्रीव जह्नोः पवितुं समेता ॥ १४ ॥ मुनीश्वरेण हीरसूरिणा शत्रुजयोर्वीधरस्य विमलाचलस्य संनिधाने समीपप्रदेशे शत्रुजया नानी शैवलिनी नदी न्यभालि विलोकिता दृष्टा। उत्प्रेक्ष्यते-परांहसा समागतापरपापीयोजनसंगमाजातपापेन मलिनं पातककलुषीकृतम् । यदुक्तम्'महापातककृल्लोकैनित्यनानविधानतः । मुक्त्वा पापं गतैः स्थानं तदादि मलिनास्म्य. हम् ॥' तदुपरि च गङ्गोक्तश्लोकः-'परदारपरद्रव्यपरद्रोहपराङ्मुखः । गङ्गाप्याह कदा. भ्येत्य मामयं पावयिष्यति ॥' इति परसमयोकानुसारेण परपातकागमनागङ्गाया अपि