________________
१७ सर्गः हीरसौभाग्यम् ।
८४९ अन्याननन्यां मुदमादधानः पुनर्व्यनंसीत्स जिनावनीन्द्रान् । शत्रुजयाद्रेरिव भूषणेषु शेषेषु चैत्येषु हिरण्मयेषु ॥ २॥ पुनरित्यपरार्थे । यथा ऋषभदेवं प्रणतवांस्तथैव अन्यानपरानपि जिनावनीन्द्रानईद्वारकान् स सूरियनंसीत् विशेषेण नमस्यति स्म । स किं कुर्वाण: । अनन्यां न विद्यते अन्या अधिका अपरा अस्याः सकाशादित्यनन्यामसाधारणी मुदं प्रीतिं प्रह्लादमादधानः कुर्वाणः । अथ वा आ सामस्त्येन मनोवाकार्यदधानो बिभ्राणः । क्वचिच्च कुमारसंभवादिषु धरणार्थेऽप्यादधान इति दृश्यते। केषु । जिनराजान् व्यनंसीत् । शेषेषु मूलचैत्यव्यतिरिक्तावशिष्टेषु चैत्येषु प्रासादेषु । किंभूतेषु चैत्येषु । हिरण्मयेषु काञ्चनरचितेषु । उत्प्रेक्ष्यते-शजयादेविमलाचलस्य भूषणेष्विव सुवर्णवर्णाभरणेष्विव ॥
शत्रुजयोर्वीघरसार्वभौममौलेर्दधानो विशदाशयत्वम् ।
अवातरनिर्जरनिर्झरिण्या इव प्रवाहो मिहिकाद्रिशृङ्गात् ॥ ३ ॥ स सूरिः शत्रुजयनान्नः उवधिराणां सर्वपर्वतानां सार्वभौमस्य चक्रवर्तिनः मौलेर्मस्तकात्। अधित्यकायाः सर्वोपरितनशिखरादित्यर्थः । अवातरत् उत्तरति स्म । क इव । प्रवाह इव । यथा निर्जराणां देवानां निर्झरिण्या नद्या गङ्गायाः प्रवाहः पयोधारा मिहिकाद्रिशृङ्गात् तुहिनाचलशिखरात् हिममहीधरशृङ्गादवतरति । किंभूतः स प्रवाहश्च । विशदं विमलं निष्पापमुज्ज्वलं च आशयं मनोमध्यं च दधानो बिभ्राणः । हिमाद्विरप्यचलचक्री ।।
अलंकरोति स्म स पादलिप्तपुरं पुरंध्रीगणगीयमानः ।
सहस्ररश्मेरिव रश्मिराशिरुदीयमानद्विजराजबिम्बम् ॥ ४ ॥ .. स हीरसूरिः पादलिप्तपुरं कथंचिद्गुरुवचनतः श्रावकीभवनानन्तरमवाप्तगगनाङ्गणवि
चरणप्रवणशक्तिप्रदायिपादलेपोऽष्टोत्तरशतभेषजसंतुष्टचेतसा वतृतयाराधितनागेन्द्रवि• श्राणितवरप्रसादाधिगतसततानेकजातीयौषधीसंदोहमाहात्म्येन सिद्धसहस्रलक्षकोटिवेधि
खर्णरसेन नागार्जुनयागिना उदयदविभक्तिशक्तिवशंवदीभवन्मानसेन खपादलिप्तगुरो ना वासितं पादलिप्ताभिधानं नगरम् अधुना तु 'पालीतागुं' इति लोके प्रसिद्धम् अलंकरोति स्म भूषयामास । किंभूतम् । पुरंध्रीणां विविधजनपदागतानां मृगाक्षीणाम् । पुरंध्रीशब्दो ह्रखो दीर्घोऽप्यस्ति । यथा नैषधे-'अखिलपुरपुरंध्रीनेत्रनीलोत्पलानि' इति । गणैर्वृन्दैगीयमानः गानगोचरीक्रियमाणः । क इव । रश्मिराशिरिव । यथा सहस्ररश्मेर्दिनकरस्य किरणनिकरः उदीयमानमभ्युदयं गच्छत् द्विजराजबिम्बं चन्द्र. मण्डलमलंकुरुते । सहस्रकिरणारिकरणगणमादाय चन्द्रोऽभ्युदयतीति कविसमयः । 'पुपोष वृद्धिं हरिदश्वदीधिवेरनुप्रवेशादिव बालचन्द्रमाः' इति रघुवंशे ॥
स प्रार्थितो द्वीपजनव्रजेन खपत्तनं पावयितुं व्रतीन्द्रः । चित्रादिना सारथिनेव केशी वशीशिता श्वेतविकाभिधानम् ॥ ५ ॥
१०७