SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ ८४८ काव्यमाला। शक्यभावात्तदधित्य कायामेव तस्थिवानित्यर्थः । उत्प्रेक्ष्यते-स्वेनात्मनापि सिद्धानां क्षेत्रत्वेन सिद्धो मुक्तात्मा भविष्णुर्न भवनशीलेन अपि तु काकूच्या सिद्धो भवितैव । अथ वा विद्यामत्रतत्रौषधीविविधसिद्धिभिः कृत्वा सिद्धपुरुषो बुभूषुर्न अपि तु सर्वसिद्विमान् भवितुमिच्छुरेव । यद्यपि विद्यामन्त्रादीनां साधूनां प्रयोजनं नास्ति, तथापि कदा. चिदपि समयानुसारेण प्रयोजनमपि भवेत् । अथ वा पूर्वादिषु सर्वस्यापि सद्भावात् ज्ञेयखरूपमपि सर्व भवेत् । किंलक्षणो मुनीन्द्रः । श्रीभित्रैलोक्यैश्वर्यलक्ष्मीभिः कलितस्य तीर्थभर्तुः ऋषभदेवस्य पदयोश्चरणयोः परिचरणा उपासना तया हेतुभूतया य । आनन्दः परमाहादस्तेन सान्द्रो मेदुरः । निग्ध इत्यर्थः । किंभूतः पुनः । भगवान् जगत्पूज्यः । पुनः किं कुर्वाणः । श्रीमान् सातिशयज्ञानाश्चर्यकृल्लब्धिलक्ष्मीयुतः प्राचीनः प्राक्तनः सूरीश्वर इवाङ्गभाजां यात्रिकजनानां समाजे सभायां विमलशिखरिणः । पुण्डरीकादेरिति पूर्वव्यावर्णितप्रकारेण प्रभावं महिमानं विशिष्य विशेषप्रकारेण भाषमाणः प्रकाशयन् ॥ यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी च यं श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामनिमम् । तद्ब्रामीकमसेविदेवविमलव्यावर्णिते हीरयु- , क्सौभाग्याभिधहीरसूरिचरिते सर्गोऽभवत्षोडशः ॥ १४२ ॥ पण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये षोडशानां संख्यापूरणः द्विरष्टसंख्यः सर्गोऽधिकारविशेषः अभवत्संजातः ॥ इति पण्डितसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभाग्यनाममहाकाव्यवृत्ती संघागमनचैत्यपरिपाटीपूर्वकयात्राकरणप्रासादा दिवर्णनशजयमाहात्म्यप्रकाशनो नाम षोडशः सर्गः । तदशः सर्गः। . . सप्तदशः सर्गः । अथ व्रतीन्द्रोऽभ्युदयं दधाने बिम्बे नभस्यम्बुजबान्धवस्य । मूर्धा धृते पूर्वदिशेव भद्रकुम्भे स नाभेयजिनं ननाम ॥ १ ॥ अथ शत्रंजये यात्रां कृला कतिचिदिनान्यधित्यकायामेव स्थितेरनन्तरं सोऽकबरसाहिभाननीयो व्रतीन्द्रो हीरविजयसूरिः कदाचित्कस्मिन्नपि दिवसे गिरेरुत्तितीर्घः नाभेयजिनं श्रीऋषभतीर्थनाथं ननाम प्रणमति स्म । कस्मिन् सति । नभसि गगनमण्डले अम्बुजबान्धवस्य सूर्यस्य बिम्बे मण्डले अभ्युदयं संमुखाद्गमनं दधाने बिभ्राणे सति । प्रातःकाले सूर्येऽभ्युदिते सतीत्यर्थः । उत्प्रेक्ष्यते-पूर्वदिशा प्राचीहरिता खमस्तकेन कृला धृते अधिरोपिते भद्रकुम्भे मङ्गलकलशे इव ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy