Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
१६ सर्गः] हीरसौभाग्यम् ।
महीपालभूभृन्मुखाणामिवैतन्नृणां कुष्टकष्टादिनिर्घातनिष्णम् । मरुल्लोलकल्लोललीलायमानारविन्दब्रज सूर्यकुण्डं विभाति ॥ १२९॥ एतत्प्रत्यक्षं पार्श्ववात सूर्यकुण्डं विभाति । किंभूतम् । मरुता वायुवेगेन लोला. श्वश्चलीभूता ये कलोलास्तरङ्गास्तेषु लीलायमानो लीलया आचरन् अरविन्दानां कम. लानां व्रजो यत्र । पुनः किंभूतम् । नृणां सर्वजनानां कुष्टान्यष्टादशजातीयमहारोगविशे. पास्तेषां कष्टानि अङ्गादिगलनादिकृच्छ्राणि तान्यादौ प्रथमं येषां तादृशानि शोकापत्प्रमुखदुःखानि तेषां निर्घातो मूलोच्छेदनं तत्र निष्णं निपुणम् । केषामिव । महीपालभूभृत्प्र. मुखाणामिव । यथा साधिताप्रतिहतखड्गाद्यनेकविद्यासिद्धस्य स्वयंवरपरिणीतगुणसुन्दरीभर्तुः रोगाकुल्येऽपि विजितप्रतिपक्षक्षमाभृक्षस्य महीपालनान्नो राज्ञः कुष्टकष्टनिर्भेदकमासीत्तथा परेषामपीति बोध्यम् । महीपालकथा तु शत्रुजयमाहात्म्येऽस्तीति ॥
पुण्डरीकाचलो:व महिमैकनिकेतनम् ।
राजादनी विभात्येषा मुषिताशेषकल्मषा ॥ १३० ॥ एषा प्रत्यक्षलक्ष्वा राजादनी क्षारिका 'रायणि' इति प्रसिद्धा विभाति । किंभूता । मुषितानि मूलादुच्छिन्नानि अशेषाणि समस्तानि कल्मषाणि पापानि यया। पुनः किंभूता । महिम्नां माहात्म्यानामेकमद्वैतं निकेतनम् । केव । पुण्डरीकाचलस्य शत्रुजयादेरुनी भूमीव ॥
ऐहिकामुष्मिकानल्पसंकल्पितान्यङ्गभाजां सृजन्ती त्रिलोकीभुवाम् । वेधसा स्वर्गिणां गौरपूर्वेव या निर्मिता राजते यत्र राजादनी ॥१३१॥ यत्र शत्रुजये राजादनी राजते । उत्प्रेक्ष्यते-या राजादनी वेधसा सृष्टिकर्ता अपूर्वान्याभ्यः कामधेनुभ्यो लक्षणैरसाधारणा गौर्धेनुः कामदुघा निर्मिता निष्पादिता । किं कुर्वती । त्रिलोकीभुवां जगत्रितयजन्मनां अङ्गभाजां देहभाजां सुरासुरनराणां प्रा. णिनामैहिकानि इहलोकभवानि रोगापनयनसंपत्करणादिमानि आमुष्मिकाणि परलोकमवानि वर्गापवर्गादिकानि यान्यनल्पानि भूयांसि । समस्तानीत्यर्थः । संकल्पितानि मन:कामितानि । मनोरथानित्यर्थः । सृजन्ती कुर्वन्ती। संपूरयन्तीत्यर्थः ॥
वर्षत्यसौ शिरसि संघपतेः पयोभि
र्जम्भारिराजिरिव जन्ममहे जिनेन्दोः । मुक्त्यङ्गनां पुनरियं वयसीव रङ्गा
त्पुंसानुषङ्गयति संगमकामुकेन ॥ १३२ ॥ ___ असौ राजादनी संघपतेः संघनायकस्य 'संघवी' इति लोकप्रसिद्धस्य शिरसि मस्तके क्षीरवत्त्वेन पयोभिः क्षीरैर्वति । जम्भारिराजिरिव । यथा जन्ममहे जननमहोत्सवे
Loading... Page Navigation 1 ... 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980