SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः] हीरसौभाग्यम् । महीपालभूभृन्मुखाणामिवैतन्नृणां कुष्टकष्टादिनिर्घातनिष्णम् । मरुल्लोलकल्लोललीलायमानारविन्दब्रज सूर्यकुण्डं विभाति ॥ १२९॥ एतत्प्रत्यक्षं पार्श्ववात सूर्यकुण्डं विभाति । किंभूतम् । मरुता वायुवेगेन लोला. श्वश्चलीभूता ये कलोलास्तरङ्गास्तेषु लीलायमानो लीलया आचरन् अरविन्दानां कम. लानां व्रजो यत्र । पुनः किंभूतम् । नृणां सर्वजनानां कुष्टान्यष्टादशजातीयमहारोगविशे. पास्तेषां कष्टानि अङ्गादिगलनादिकृच्छ्राणि तान्यादौ प्रथमं येषां तादृशानि शोकापत्प्रमुखदुःखानि तेषां निर्घातो मूलोच्छेदनं तत्र निष्णं निपुणम् । केषामिव । महीपालभूभृत्प्र. मुखाणामिव । यथा साधिताप्रतिहतखड्गाद्यनेकविद्यासिद्धस्य स्वयंवरपरिणीतगुणसुन्दरीभर्तुः रोगाकुल्येऽपि विजितप्रतिपक्षक्षमाभृक्षस्य महीपालनान्नो राज्ञः कुष्टकष्टनिर्भेदकमासीत्तथा परेषामपीति बोध्यम् । महीपालकथा तु शत्रुजयमाहात्म्येऽस्तीति ॥ पुण्डरीकाचलो:व महिमैकनिकेतनम् । राजादनी विभात्येषा मुषिताशेषकल्मषा ॥ १३० ॥ एषा प्रत्यक्षलक्ष्वा राजादनी क्षारिका 'रायणि' इति प्रसिद्धा विभाति । किंभूता । मुषितानि मूलादुच्छिन्नानि अशेषाणि समस्तानि कल्मषाणि पापानि यया। पुनः किंभूता । महिम्नां माहात्म्यानामेकमद्वैतं निकेतनम् । केव । पुण्डरीकाचलस्य शत्रुजयादेरुनी भूमीव ॥ ऐहिकामुष्मिकानल्पसंकल्पितान्यङ्गभाजां सृजन्ती त्रिलोकीभुवाम् । वेधसा स्वर्गिणां गौरपूर्वेव या निर्मिता राजते यत्र राजादनी ॥१३१॥ यत्र शत्रुजये राजादनी राजते । उत्प्रेक्ष्यते-या राजादनी वेधसा सृष्टिकर्ता अपूर्वान्याभ्यः कामधेनुभ्यो लक्षणैरसाधारणा गौर्धेनुः कामदुघा निर्मिता निष्पादिता । किं कुर्वती । त्रिलोकीभुवां जगत्रितयजन्मनां अङ्गभाजां देहभाजां सुरासुरनराणां प्रा. णिनामैहिकानि इहलोकभवानि रोगापनयनसंपत्करणादिमानि आमुष्मिकाणि परलोकमवानि वर्गापवर्गादिकानि यान्यनल्पानि भूयांसि । समस्तानीत्यर्थः । संकल्पितानि मन:कामितानि । मनोरथानित्यर्थः । सृजन्ती कुर्वन्ती। संपूरयन्तीत्यर्थः ॥ वर्षत्यसौ शिरसि संघपतेः पयोभि र्जम्भारिराजिरिव जन्ममहे जिनेन्दोः । मुक्त्यङ्गनां पुनरियं वयसीव रङ्गा त्पुंसानुषङ्गयति संगमकामुकेन ॥ १३२ ॥ ___ असौ राजादनी संघपतेः संघनायकस्य 'संघवी' इति लोकप्रसिद्धस्य शिरसि मस्तके क्षीरवत्त्वेन पयोभिः क्षीरैर्वति । जम्भारिराजिरिव । यथा जन्ममहे जननमहोत्सवे
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy