________________
८४२
काव्यमाला।
खत्या दृष्टेरग्रे कुङ्कुमप्ररोहमण्डली प्रादुर्भवति । काश्मीरजनपदे सरखतीदृष्टेः पुरो घुम. णमुद्गच्छति, अन्यत्र कुसुम्भक इति श्रूयतेऽद्यापि ॥
हृदभिलषितसिद्धी रैहिकामुष्मिकाद्या
स्त्रिजगति ददतो मे के पुरो यूयमाध्वे । इति किमु सुरवृक्षानैहिकार्थान्ददानां
स्तृणयति खगरावैर्यद्वटः सिद्धनामा ॥ १२७ ॥ .. सिद्ध इति नाम यस्य तादृशो यो वटः न्यग्रोधः यस्य शत्रुजयस्य वटो यद्वटः प्लक्षः। 'सिद्धवड' इति प्रसिद्धः। स खगानां पक्षिणां रावैर्विरुतैः इह लोके भवा ऐहिकास्ते च ते अर्था अभिलाषास्तान्ददानान्पूरयतः सुरवृक्षान् कल्पद्रुमान् तृणयति तृणप्रायान् कुरुते । अवगणयतीत्यर्थः । उत्प्रेक्ष्यते-इति हेतोः किमु । इति किम् । त्रिजगति त्रैलो.. क्येऽपि । त्रिभुवनजनानामित्यर्थः । ऐहिका इहलोकसंवन्धिनी: आमुष्मिकाः परलोकसंबन्धिनीः हृदभिलषिता हृदयेन मनसा कामिताः सिद्धीर्ददतो यच्छतो मे मम पुरोऽग्रे भोः कल्पवृक्षाः यूयं के वराका आध्वे वर्तध्वे । अकिंचित्करत्वेन न केऽपीत्यर्थः ॥
यस्मिन्नित्यमशापि पात्रसलिलक्षेपात्क्रुधा साधुना , ___ काकः कोऽपि कदापि मास्त्विह नगे जातप्रवेशः क्वचित् । मातङ्गो महतामिवौकसि ततस्तत्राप्यभूदक्षयं
स्थाने तद्वचसाम्बु पद्मनदवद्विश्वैकमाहात्म्यभृत् ॥ १२८ ॥ यस्मिन्नगे विमलाद्रौ पात्रानालिकेरामत्रात् 'उलषो' इति प्रसिद्धात्सलिलस्य ज. लस्य क्षेपात्क्षेपणाल्लोकोक्त्या ढोलणात् क्रुधा कोपेन केनापि अनिर्दिष्टनाम्ना साधुना मुनिना कोऽपि वपात्रपानीयक्षेपकः काकः इत्यममुना प्रकारेणाशापि शप्तः। इत्थं कथम् । यदिह नगेअस्मिन् शत्रुजये क्वचित्कुत्रापि शैलसंबन्धिनि प्रदेशे स्थानके कदापि कस्मिन्नपि प्रस्तावे कोऽपि कश्चिदपि खजातीयः काको वायसो जातो भूतः प्रवेशः समागमो यस्य तादृशो मा भूत् मास्ताम् । कोऽपि काको मात्रागच्छत्वित्यर्थः । क इव । मातङ्ग इव । यथा चाण्डालो महतामुत्तमजातीयानामोकसि गृहे जातप्रवेशो भवेत् । ततः शापदानानन्तरं मध्यं दिनदिनकरप्रसरत्करनिकरप्रवलतापोद्भूतप्रभूतषाशुध्यन्मुखोप्टतालुरसनात्याकुलवालवृद्धादिसंघजनात्याभ्यर्थनोत्पन्नानुकम्पाभवन्मनस्तया तद्वचसा तस्यैव साधोगिरा तत्रापि स्थाने तस्मिन्नेव पानीयक्षेपणप्रदेशे तीर्थातिशयप्रकटनार्थमक्षय न विद्यते क्षयो रिक्तीभावो यस्य तादृशमम्बु पानीयमभूत् जातः । अधुनाप्यक्षीगमेव वारि वर्तते । 'उलखाझोल' इति नाना प्रसिद्धमास्ते । किंवत् अक्षीणम् । पद्मनदवत् । यथा पद्महदे अक्षयमम्बु वर्तते । किंभूतमम्बु । विश्वे त्रैलोक्येऽप्येकमद्वैतं माहात्म्यं महिमानं विभीति ॥