________________
१६ सर्गः ]
हीरसौभाग्यम् ।
८४५
टिभिः शतलक्षाभिः कलितः सहितः । तथा कोटिशब्दो दुखः स्त्रीलिङ्गवा चिवदाकारान्तः । यदुक्तम् —' कियती पञ्चसहस्री कियती लक्षा च कोटिरपि कीयती । औदार्योनतमनसां रत्नवती वसुमतीं कियती ॥' इति सूक्ते लक्षाशब्दः । तथा लिङ्गानुशासने'मानो लक्षं माने वाच्यं लक्षशब्दः स्त्रीक्लीवलिङ्गयोः लक्षं लक्षा च' इति लिङ्गानुशासने । श्रिया प्रथमचक्रिप्रथमपुत्र प्रथमतीर्थ कृत्प्रथमगणभृल्लक्ष्म्या युतः पुण्डरीकनामा गणी श्रीऋषभदेवचतुरशीतिगणभृत्सुमुख्यो गणधरः अत्र शत्रुंजयाद्रौ चैत्र्याम् । चैत्रेण मासेन युक्ता पौर्णमासी चैत्रीत्युच्यते । चैत्रपौर्णमास्यामित्यर्थः । मुदा अनन्तानन्दसंदोहमेदुरतया मोक्षमसाधयत्साधयामास । मुक्ति जगामेत्यर्थः । क इव । जयीव । यथा जयनशीलो राजा प्रमोदेन महीमासमुद्रान्तमेदिनीं साधयति । तत इह नगे श्रीशत्रुंजयपर्वते यत्किचिद्दानोपवासादिकमत्र दिने अस्यां चैत्र्यां पूर्णिमायां जनैर्भविकलोकैः क्रियते विधीयते । तत्साधुसाध्वीविश्राणनोपवसनादिकमत्र चैत्र पूर्णिमावासरे एकस्मिन्नेवाहनि पञ्चकोटिमुनीनां मुक्तिगमनकारणेन कोटिभिः शतलक्षाभिः गुण्यते इति कोटिगुणितं स्यात् । किमिव । दानमिव । यथा सुपात्रे दानं कोटिगुणं भवेत् । यदुक्तम् - ' दानपात्र - मधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि' इति नैषधे ॥
शाश्वताद्रिरिवानन्तसमयस्थायुकोऽस्त्ययम् । कालक्रमात्पुनर्धत्ते शशीवोपचयक्षयौ ॥ १३५ ॥
·
अयं शत्रुंजयाद्विर्न विद्यते कदाप्यन्तोऽवसानं यस्य तावन्तं समयं कालं यावत्ति - छतीत्येवंशीलः स्थायुकः । क इव । शाश्वताद्रिरिव । यथा अनश्वरो मेरुप्रमुखशैलः । जातिवाचित्वादेकवचनम् । अनन्तं कालं यावत्स्थास्नु रास्ते । परमस्मिन् शत्रुंजये एकोऽयं विशेषः । कालक्रमादुत्सर्पिण्यवसर्पिणी समयपरिपाठ्या उपचयक्षय वृद्धि - क्षणभाव असौ धत्ते । क इव । शशीव । यथा चन्द्रः शुक्लकृष्णपक्षक्रमादुपचयक्षीणते धत्ते । यथा शशी शुक्ले पक्षे वर्धते कृष्णे च हीयते, तथा शत्रुंजयोऽप्युत्सर्पिण्यां वृद्धिं भजते अवसर्पिण्यां क्षणं क्षयमयते । किं च यथा कलावान्कलामात्रमेवावशिध्यते तथा विमलाद्भिरपि सप्तहस्तप्रमाणो मुण्डकमानोऽवशिष्यते ॥
तालध्वजढङ्काभिधकदम्बलौहित्यरैवताद्यचलाः ।
विलसन्महिमानोऽमी यत्प्रतिकाया इवाभान्ति ॥ १३६ ॥
अमी प्रत्यक्षाः संनिधौ निरीक्ष्यमाणाः तालध्वजः, तथा ढङ्क इत्यभिधा ययोस्तौ 'तस्ताझो ढंको' इति नाम्ना प्रसिद्धी, तथा कदम्बः, तथा लौहित्य:, तथा रैवत्य उज्जयन्तः कोलम्बो लोहिच्चो गिरिनारि इति नाम्ना लोकप्रसिद्धाः । एते पञ्चापि पर्वता आदौ कृत्वा येषां ते अचला: ‘टुंक' इति ख्याताः पर्वता यत्प्रतिकाया यस्य शत्रुंजयाद्रेः प्रतिबिम्बानीवाभान्ति आ सामस्त्येन शोभन्ते । किंभूताः । विलसन् त्रैलोक्ये स्फूर्तिमत्तां कलयन् महिमा माहात्म्यं येषामेते पञ्चापि गिरयः शत्रुंजयाद्रेर्मुख्यशिखराणि विमलाचलतुल्य माहात्म्यानि सन्ति ॥