________________
काव्यमाला।
प्रदक्षिणयितुं मुदारभत गीतिभिः सुभ्रुवां
सुमेरुमुडुमालयेव सममौषधीनायकः ।। ९४ ॥ स व्रतिक्षितिशतक्रतुः हीरविजयसूरिराज: सुभ्रवां स्त्रीणां गीतिभिर्मङ्गलगानैः समं जिनेन्द्रभवनं भगवत्प्रासादं मुदा हर्षेण प्रदक्षिणयितुं त्रिः प्रदक्षिणागोचरीकर्तुमारभत । प्रारब्धवानित्यर्थः । किंभूतो व्रतिपतिः । शमः शान्ति म तस्य वा पद्मा लक्ष्मीस्तया संगतः सहितः। किंभूतं जिनेन्द्रभवनम् । शिखायाः शिखरस्य उदयेन उच्छ्रायेन। 'उ. च्छेद उदयोच्छ्रायौं' इति हैम्याम् । उच्चत्वेन कृत्वा नभ आकाशं परीरम्भते आलिगतीत्येवंशीलम् । भवनशब्दः पुनपुंसकलिङ्गे । 'भवनभुवनयानोद्यानवातायनानि' इति लिङ्गानुशासने । तेन पुंलिङ्गविशेषणम् । क इव । औषधीनां नायक इव । यथा औषधीनाथश्चन्द्र उडुमालया नक्षत्रश्रेण्या समं सुमेरुं वर्णाचलं प्रदक्षिणयति प्रदक्षिणीकृत्य भ्राम्यति दक्षिणपार्श्वे प्रणीय पर्यटति ॥
स देवकुलिकान्तरे जिनपुरंदरान्समदा-.
दवन्दत तदा जिनाधिपतिकेतनस्याभितः । . . मरुद्वसतिवत्ततः सुरपरम्परोपासिता
... व्यलोकि विभुना पुरः प्रमुदितेन राजादनी ॥ ९६ ॥ तदा प्रदक्षिणादानन्दसरससूरिर्जिनाधिपतिकेतनस्य मूलचैत्यस्याभितः परितश्चतुदिक्षु देवकुलिकानां लघुदेवगृहाणां 'देहरी' इति प्रसिद्धानामन्तरे मध्ये जिनपुरंदरान् भगवत्प्रवरप्रतिमाः संमदादानन्दादवन्दत नमस्करोति स्म । ततः कतिचिद्देवकुलिकासु जिनबिम्बवन्दनानन्तरं प्रमुदितेन हृष्टमनसा विभुना गणवामिना गुरुणा पुरोऽप्रे राजादनी क्षीरिका 'रायणि' इति प्रसिद्धा । 'नवनवति पूर्ववारान् यस्मिन्समवसरय. युगादिजिनः । राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् ॥' इति पूर्वसूरिकृतस्तुतौ । व्यलोकि दृष्टा। किंभूता। सुराणां चतुर्निकायिकदेवानां परम्पराभिः श्रेणीभिरुपासिता सेविता । केव । मरुतां भवनपतिव्यन्तरज्यौतिष्कविमानिकानां वसतिर्निवासस्थानमिव । यथा मरुद्वसतिः सुरालीभिः परिशीलिता आस्ते ॥
अवऱ्यात स मौक्तिकै रजतहेमपुष्पव्रजै__र्जगद्गुरुरिवाङ्गिभिः सुमनसां समूहैः श्रिता । गिरेरिव धनागमोन्नमदमन्दकादम्बिनी
ववर्ष पयसां भरैः शिरसि संघभर्तुश्च या ॥९६ ॥ या राजादनी अङ्गिभिर्यात्रिकसंघलोकैः सह मौक्तिकैर्मुक्ताफलैर्वर्तन्ते ये तादृशा रजतानां रूप्यसंबन्धिनां हेनां सुवर्णसंबन्धिनां पुष्पाणि कुसुमानि अथ वा रजतानि