________________
१६ सर्गः] हीरसौभाग्यम् ।
८२९ खर्णानि पुष्पाणि जलस्थलजातानि कमलमालतीप्रमुखाणि तेषां व्रजाः समूहाः तेरव•यंत वर्धिता। क इव । जगद्गुरुरिव । यथा तीर्थनाथ: अनिभिर्भव्यजनैः सुरासुरनरैमौक्तिककलितरजतमहारजतमयसुमैः स्वाभाविककुसुमैश्च वय॑ते । किंभूतानाम् । सुमनसा पुष्पाणां देवानां च । 'प्रतिशाखं प्रतिपत्रं प्रतिफलं देवैरधिष्ठिता' इति शत्रुजयमाहात्म्ये। समूहैः श्रिता । जगद्गुरुरपि समवसरणे जानुप्रमाणपुष्पैश्चतुर्निकायनाकिनिकरैश्च से. वितः स्यात् । च पुनर्या संघभर्तुः संघपतेः शिरसि मस्तके पयसां क्षीरवृक्षत्वात्दीराणां भरैर्धाराभिर्ववर्ष वृष्टिं कृतवती । केव । धनागमोन्नमदमन्दकादम्बिनीव । यथा घनानां मेघानामागमे प्रावट्समये। 'वर्षास्तपात्ययः प्रावटमेधात्कालागमौ क्षः' इति हैम्याम् । उन्नमन्ती जलभरैर्नम्रीभवन्ती तथा अमन्दा मिलददभ्राधिकाभिर्बहला जायमाना कादम्बिनी मेघमाला गिरेः पर्वतस्य शिरसि. शिखरे पानीयानां व्रजैर्वर्षति ॥
असावपि किमक्षयाजनि न सिद्धशैलाश्रया
दनन्तयतिनः शिवश्रियमवापुरस्यास्तले । युगादिजिनपादुका किमधिदेवतास्या मरु
द्गवीव विहितेहिता श्रियमुवाह राजादनी ॥९७ ॥ मन्त्रतन्त्रयन्त्रविद्यानां विविधाः सिद्धयो यस्य स सिद्ध उच्यते । तादृशश्वासौ शैलश्च शैलनामा कश्चित्सिद्धपुरुषः शत्रुजयपर्वतश्च तस्याश्रयो नित्याङ्कस्थायुकत्वेन संश्रयस्तस्मात्कारणादसावपि राजादन्यपि । उत्प्रेक्ष्यते-अक्षया सर्वदैव विद्यमानत्वाद्वा क्षयरहिता किमजनि जातेव । पुनरस्या राजादन्यास्तले मूलसंनिधौ भूमिभागे अनन्ता अन्तातीता यतिनः साधवः । मत्वर्थीय इन्प्रत्ययः । 'ब्रह्मशर्मभरचारुयतीव' इति नै. •षधे । शिवं मोक्षमवापुर्लेभिरे । पुनरस्यास्तले अधोभूमिभागे युगादिजिनपादुका ऋषभदेवपादद्वन्द्वप्रतिमा आस्ते । उत्प्रेक्ष्यते-अस्या राजादन्या अधिदेवता किमधिष्ठात्री देवीव । पुनर्या विहितं निष्पादितम्। पूरितमित्यर्थः। ऐहिकमिहलोकसंबन्धि पुत्रकलबर्वभवादिकमामुष्मिकं परलोकसंबन्धि खर्गापवर्गादिमभीहितं यया तादृशीव वर्तते । केव। • मरुद्गवीव । यथा कामधेनुः कृतजनाभिलषिता भवति तादृशी सा राजादनी शोमामु. वाह वहते स्म ॥
विहारमिव संमदाद्रतिवसुंधरावासवः
प्रदक्षिणयति स्म तत्प्रथमतीर्थकृत्पादुकाम् । जिनाधिपमिवाध्वनि द्रुमपरम्परा तं तदा
ननाम किमु भक्तितः फलभराच्च राजादनी ॥९८ ॥ व्रतिवसुंधरावासवो मुनीनां मध्ये मेदिनीन्द्रो राजा हीरसूरिविहारं जिनप्रासादमिव सा चासो प्रथमतीर्थकृतो नाभेयदेवस्य पादुका च तत्पादप्रतिकृति प्रदक्षिणयति स्म