________________
काव्यमाला।
प्रदक्षिणीचकार । च पुनस्तदा तस्मिन् सूरेः प्रदक्षिणादानावसरे फलानां सस्यानां भराद्भारादतिशयाद्वा राजादनी ननाम नम्रीबभूव । उत्प्रेक्ष्यते-भक्तितो गुरौ सेवासक्तिवशादिव नमति स्म । केव । द्रुमपरम्परेव । यथा पादपानां पटली अध्वनि भगवति विहारं कुर्वाणे सति मार्गे जिनाधिपं नमति तीर्थनाथं प्रति प्रवीभवति ॥ इति राजादनी ॥
समीक्ष्य शिखिभोगिनौ स सखिवन्मिथः संगतौ
ततो यमिमतङ्गजो जिननिशीथिनीनायकान् । .. जसूप्रथमठक्कुरप्रवररामजीकारितो
लसजिनविहारयोस्त्रिचतुरास्ययोनेंमिवान् ॥ ९९ ॥ .. ततो राजादनीऋषभपादुकाप्रदक्षिणाप्रणमनानन्तरं यमिमतङ्गजो वाचंयमकुञ्जरः पू. रिर्जिननिशीथिनीनायकान् जिनचन्द्रबिम्बान नेमिवान् नतिगोचरीचक्रिवान् । कयोः। जसू इति शब्दः प्रथमं पूर्व यत्र तादृशठकुरः एतावता लोकप्रसिद्धया जसूठार इत्यभि. धानः, तथा प्रवरोधर्मकर्मदातृतादिगुणप्रधानो यो रामजी नामा व्यवहारी ताभ्यां कारितयोः शिल्पिभिर्निर्मापितयोः । तथा उल्लसतो विविधरचनाचारंशोभाभिः स्फुरतोस्ताहशयोर्जिनविहारयोस्तीर्थकृत्प्रासादयोः। किंभूतयोः । त्रिचतुरास्ययोः त्रीणि तथा चत्वारि आस्यानि द्वाराणि ययोः । त्रिमुखचतुर्मुखयोरित्यर्थः । किं कृत्वा। समीक्ष्य दृग्गोचरीकृत्य । को शिखिभोगिनौ मयूरभुजंगमौ । किंभूतौ । मिथः परस्परं संगती मिलितो। किंवत् । सखिवत् सखायाविव मित्रे इव ॥
स भक्तमिव नाभिभूप्रभुपुरोऽनिशस्थायिनं ।
प्रणम्य गणधारिणं तदनु पुण्डरीकाभिधम् । जिनेन्द्र इव देशनासदनमादिदेवालयं
समं मनुजराजिभिः श्रमणपुंगवः प्राविशत् ॥ १०० ॥ श्रमणेषु साधुषु पुंगवः प्रधानः श्रेष्ठः । 'स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः' इति है. म्याम् । तथा 'पुंगवो गवि भैषज्ये प्रधाने चोत्तरस्थितः' इत्यनेकार्थः । अथ वा श्रमणानां मध्ये पुंगवो वृषभो गणभारधुरंधरत्वात् सूरिर्मनुजराजिभिः भव्यलोकमालिकाभिः सममादिदेवालयमृषभप्रासादं प्राविशत्प्रविशति स्म । क इव । जिनेन्द्र इव । यथा तीर्थकरः सुरासुरनरैः सार्धं देशनासदनं समवसरणं प्रविशति । किं कृत्वा । तदनु जसूठाररामजीसाहिविहारयोर्भगवद्विम्बप्रणमनादनु पश्चात्पुण्डरीक इत्यभिधा नाम तादृशं गणधारिणमृषभजिनप्रथमगणधरम् । यदुक्तम्-'ऊसप्पिणीण पढम सिद्धी इह पढमचकिपढमसुउ । पढमजिणस्सपपढमो गणहीरीजच्छपुण्डरिउ ॥ इति शत्रुजल्पकल्पे । प्रणम्य नमस्कृत्य । किंभूतम् । नाभिनाम्नः कुलकराद्भूत्पत्तिर्यस्य तादृशो मारुदेवदेवः स एव प्रभुः खामी जगन्नायकस्तस्य पुरोऽप्रे दृग्गोचरे अनिशमहोरात्रं तिटतीत्येवंशी