________________
१६ सर्गः] . हीरसौभाग्यम् ।
८३१ लम् । कमिव । भक्तमिव । यथा सेवासक्तः पुमान् खामिपुरस्तानात्यासन्ने नातिदूरे तिष्ठति ॥
प्रणम्य जननी जिनेशितुरिभांसमासेदुषीं ___स गर्भभवने पुनः किमु न देवयुक्छन्दके । जिनं खयमिव स्थितं विकचनेत्रपत्रैः पिब
नवाङ्मनसगोचरां मुदमविन्दत श्रीगुरुः ॥ १०१ ॥ स हीरविजयसूरिरिति नाम्ना प्रसिद्धः श्रिया गणभृलक्ष्म्या युक्तो गुरुस्तत्त्वज्ञः जैनश्राद्धानां धर्मोपदेष्टा जिनं श्रीऋषभतीर्थकरं विकचैर्विनिदैनॆत्रपत्रैः । पूज्यत्वाद्बहुत्वम् । नयनकमलदलै: पिबन् सादरमवलोकयन् सन् अवाङ्मनसयोर्न वचनचेतसोर्गोचरं विषयातीतम्। वाचा वक्तुं न शक्यते चेतसा च ज्ञातुं न पार्यते इत्यर्थः । तादृशी मुदमानन्दमविन्दत प्राप्नोति स्म । किंभूतं जिनम् । स्थितं स्थितिं कृतवन्तम् । उत्प्रेक्ष्यतेखयमात्मनैव मोक्षादागत्यात्र तस्थिवांसमिव । क्व स्थितम् । गर्भभवने भवनस्य गर्भो गर्भभवनः । 'क्वचिदमाद्यन्तस्य परत्वम्' इति सूत्रेण भवनस्य परत्वम् । तस्मिन् गर्भागारे। उत्प्रेक्ष्यते-देवेत्यादिपदेन युनक्ति योगं प्राप्नोति संबन्धं लभते इति देवयुक् तादृशश्छन्दकः । खार्थे कः । एतावता देवच्छन्दकस्तस्मिन्निव । प्रागपि समवसरणे मध्ये प्राकारान्तर्दवच्छन्दक आसीत्, तत्र च मुखं तिष्ठन्नासमानः शयान आसीत्तद्वत । किं कृत्वा मुदमविन्दत। जिनेशितुः श्रीवृषभध्वजस्य जननी मातरं प्रणम्य मरुदेवीं प्रणामविषयीकृत्य । किं चक्रुषी। इभस्य गजराजस्य अंसं स्कन्धमासेदुषीमाश्रितवतीम् ।आरूढामित्यर्थः । यदुक्तं स्थानाङ्गे चतुर्थस्थानकचतुरन्तक्रियाधिकारे–'मरुदेवा हि स्थावर
त्वेऽपि क्षीणप्रायकर्मत्वेनाल्पकर्मा अविद्यमानमानतपोवेदना च सिद्धा गजवराहरूढाया .: एवायु:समाप्तौ सिद्धत्वात् ।' इति ॥
जिनानननिशीथिनीमणिनिरीक्षणप्रोल्लस
दन्तरमुदम्बुधिस्फुरदभङ्गभङ्गैरिव । स गौतमगणीन्द्रवच्चरममादिमं श्रीजिनं
सुधामधुरिमाङ्कितैरभिनवैः स्तवैरस्तवीत् ॥ १०२॥ . स सूरिरादिमं प्रथमं श्रीजिनमृषभं सुधावत् पीयूषैरिव मधुरिम्णा माधुर्येण अङ्कितैः कलितैस्तथा अभिनवैर्नवीनैः स्वयं विहितैः स्तवैः स्तोत्रैः अस्तवीत् तुष्टुवे । 'टुञ् स्तुतौ' धातुरुभयपदी । किंवत् । गौतमवद्गणीन्द्रवत् । यथा गौतमनामा गणिनां साङ्गे प्रवचने अधीतानां मध्ये इन्द्रो गणधरश्वरमं श्रीजिनं महावीरं भगवन्तम् अथ वा शत्रुजये यात्रार्थ समेतो जगच्चिन्तामणि: इति नमस्कारो नाभिनरिन्दमहार इति स्तवनमित्यादि प्रघोषान् स्तवैश्व स्तौति स्म । अधः स्तवैः । उत्प्रेक्ष्यते-जिनस्यादिदेवस्य आननं मुखं