________________
१६ सर्गः] हीरसौभाग्यम् । विधिना विहितम् । अथवा सम्यग्दृशां सुदृष्टीनां भव्यानां दृशां नेत्राणां शीतलताकृते अमृताअनं सुधासंबन्धि कजलमिव वेधसा सृष्टम् ॥
युगादिसमये यथा भुवनमुद्धृतं संसृते
स्तथैव पुनरुद्धराम्यहमवद्यकाले कलौ। विचिन्त्य किमिदं हृदा वृषभकेतुरत्रात्मना
वतीर्य कुरुते स्थितिं स्थिरतयात्ममूर्तिच्छलात्॥९२ ॥ वृषभकेतुर्युगादिदेवः आत्मना स्वयमेवात्र शत्रुजयमूलविहारे अवतीर्य मोक्षादा. गत्य आत्मनो निजस्य वृषभस्यैव मूर्तेः प्रतिमायाश्छलात्कपटात् स्थिरतया अव्यग्रचित्तत्वेन न तु गमनौत्सुक्येन स्थितिं निवासं कुरुते । उतश्यते-हृदा खमनसा कृत्वा इदं वक्ष्यमाणं किं विचिन्त्य विचार्येव । इति किम् । यथा युगस्य लक्षणया चतुर्थारकस्यादेस्तृतीयारकस्य पर्यन्तसमयस्तस्मिन्प्रस्तावे संमृतेः संसारात्सकाशाद्भुवनं विश्वमुद्धृतं निस्तारितं पुनर्द्वितीयवारं तथा तेनैव प्रकारेणाहमृषभः अवद्यकाले प्रबलपापोपचितसमये कलौ कलियुगे पञ्चमारकेऽपि भुवनं जगदुद्धरामि संसारकारागारादुद्धृत्य सुखेन म. हानन्दपुरं प्रापयामीति ॥ इति ऋषभप्रतिमा ॥
चतुष्कपृथिवीं ततः परिचरन्स विस्मेरिता
रविन्दसवयोविलोचनयुगेन योगीश्वरः । जगद्विजयिनी जिनाधिपतिवेश्मलक्ष्मी पिब
__ न्हृदा त्रिजगदिन्दिरां करगतामिवामन्यत ॥ ९३ ॥ • योगिनां मनोवचनकाययोगवतां वशीकृतेन्द्रियाणां वा ईश्वरः खामी स हीरविजयसूरिः हृदा खमनसा कृत्वा त्रिजगदिन्दिरां त्रैलोक्यलक्ष्मी करगतां हस्तप्राप्तामिवामन्यत जानाति स्म । यथा कश्चित्पुमान् जगदाधिपत्यं कथमप्यधिगत्य परमानन्दं विन्दति तथा सूरीन्द्रोऽपि प्रासाददर्शनानन्तरमद्वैतां मुदमालोकयांचकार । स किं
कुर्वन् । पिबन् सादरमवलोकयन् । काम् । जगद्विजयिनी त्रिभुवनप्रासादपरम्परावै. . भवपराभवित्रीं जिनाधिपतिवेश्मनः ऋषभचैत्यस्य लक्ष्मी शोभाम् । केन । विस्मरत्वं • संजातमस्मि निति विस्मे रितं सूर्येण विकासितं यदरविन्दं कमलं तस्य सवयसा मित्रेण । ततुल्येनेत्यर्थः । विलोचनयोनयन योर्युगेन द्वन्द्वेन कृत्वा । पुनः स किं कुर्वन् । ततः प्राकारमध्ये आगमनानन्तरं चतुष्कपृथिवीं प्रासादातनभूमिकाम् 'चउक' इति लोकप्र. सिद्धाम् । 'नारीमनांसीव चतुष्कमन्तः' इति रघुवंशे । परिचरन् सेवमानः । प्रासादाप्रचतुष्के समेत इत्यर्थः ॥
जिनेन्द्रभवनं शिखोदयनभःपरीरम्भणं
प्रतिक्षितिशतक्रतुः स शमपद्मया संगतः ।