Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 78
________________ धर्मबिन्दुमा श्रावक व्रताति चारा श्राद्धमध्यिायः३ ॥३७॥ पालनमिति देशस्य भानाद्देशस्यैव च पालनादतिचारव्यपदेशः प्रवर्तते, तदुक्तम्-"न मारयामीति कृतव्रतस्य, विनैव मृत्यु क इहातिचारः? । निगद्यते यः कुपितो वधादीन् , करोत्यसौ स्यानियमानपेक्षः ॥१०४॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाहयाहीनतया तु भग्नः । देशस्य भवादनुपालनाच, पूज्या अतोचारमुदाहरन्ति ॥१०॥" यच्चोक्तं 'व्रतेयत्ता विशीर्येत' इति, तदयुक्तं, विशुद्धहिंसादिविरतिसद्भावे हि बंधादीनामभाव एवेति, तदेवं बन्धादयोऽतिचारा एवेति, बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्येवमत्रातिचारतया दृश्या इति ॥ २३ ॥ अथ द्वितीयस्य मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारस्वदारमन्त्रभेदा इति ॥२४॥ (१५७) मिथ्योपदेशश्च रहस्याभ्याख्यानं च कूटलेखक्रिया च न्यासापहारश्च स्वदारमन्त्रभेदश्चेति समासः, तत्र मिथ्योपदेशो नाम अलीकवादविषय उपदेशः-इदमेवं चैवं च ब्रूहीत्यादिकमसत्याभिधानशिक्षणं १ 'रहस्याभ्याख्यानं ' रहः-एकान्तस्तव भवं रहस्य-रहोनिमित्त तच्च तदभ्याख्यानं चेति समासः, एतदुक्तं भवति-रहसि मन्त्रयमाणानवलोक्याभिधत्ते ' एते हि इदं चेदं च राजादिविरुद्धं मन्त्रयन्ते' इति २ कूटलेखस्य-असद्भूतार्थसूचकाक्षरलेखनस्य करणं कूटलेखक्रिया ३ 'न्यासापहार' इति न्यास:-परगृहे रूपकादेनिक्षेपः तस्य अपहार:-अपलापः ४ 'स्वदारमन्त्रभेद' इति स्वदाराणां उपलक्षणार्थत्वान्मित्रादीनां च मन्त्रस्य-गुप्तभाषितस्य भेदो-बहिः प्रकाशनं इति ५ । अत्र च मिथ्योपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न वादयामीत्यत्र वा व्रते भंग एव, न वदामीति व्रतान्तरे तु न किश्चन तथापि सहसात्कारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मृषावादे परप्रवर्तनं व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकयनद्वारेण मृषोपदेशं यच्छतोऽ

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196