Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 154
________________ धर्मविन्दु सापेक्षयति धर्मा ध्यायः सापेक्षय तिगुणा: ७५ इयति' निष्पद्यते, अन्यथा सामग्रीसमग्रताऽयोगात् , अत्रैव व्यतिरेकमाह-'दवीयसाऽपि' अतिचिररूपतया दुरतरवर्तिनाऽपि कालेन 'वैकल्ये तु' सामग्रिकाया विकलतायां पुनर्न जातुचित्-न कदाचिदपीति ॥२॥ एवं सति यत्कर्त्तव्यं तदाहतस्माद्यो यस्य योग्यः स्यात्तत्तेनालोच्य सर्वथा । आरब्धव्यमुपायेन, सम्यगेष सतां नयः॥३३॥ तस्मात्कारणाद्यो-यतिः यस्य-सापेक्षनिरपेक्षयतिधर्मयोरन्यतरानुष्ठानस्य 'योग्यः' समुचितः 'स्याद् भवेत् 'तद्' अनुष्ठान 'तेन' योग्येन 'आलोच्य' निपुणोहापोहयोगेन परिभाव्य 'सर्वथा' सर्वैरुपाधिभिरारब्धव्यम्-आरम्भणीय उपायेन तद्गतेनैव 'सम्यग् ' यथावत् 'एष' योग्यारम्भलक्षणः 'सतां' शिष्टानां 'नयो' नीतिरिति ॥३॥ इत्युक्तो यतिधर्मः, इदानोमस्य विषयविभागमनुवर्णयिष्याम इति ॥१॥ (३६८) प्रतीतार्थमेवेति तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगंभीरचेतसः प्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्यमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् सापेक्षयतिधर्म एवेति ॥२॥ (३६९) | 'तत्रे'ति विषयविभागानुवर्णनोपक्षेपे 'कल्याणाशयस्य' भावारोग्यरूपमुक्तिपुरमापकपरिणामस्य 'श्रुतरत्नमहोद्धेः' प्रवचनमाणिक्यपरमनीरनिधेः, 'उपशमादिलब्धिमत:' उक्तलक्षणोपशमादिलब्धिसमन्वितस्य 'परहितोद्यतस्य' सर्वजगज्जीवनातहिताधानधनस्य 'अत्यन्तगम्भीरचेतसः' हर्षविषादादावतिनिपुणैरप्यनुपलब्धचित्तविकारस्य ॥७ ॥

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196