Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 193
________________ अविषयेऽभिष्वङ्गकर गाद्राग इति ॥९॥ (४९०) 'अविषये प्रकृतिविशरारुतया मतिमतामभिष्वङ्गानहें स्त्र्यादौ वस्तुनि 'अभिष्वद्गकरणाद्' चित्तप्रतिबन्धसंपावनात् , किमित्याह-रागो दोषः ॥९॥ तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेष इति ॥ १०॥ (४९१) 'तत्रैव' कचिदर्थेऽभिष्वङ्गे सति अग्निज्वालाकल्पस्य सम्यक्त्वादिगुणसर्वस्वदाहकतया मात्सर्यस्य-परसम्पत्त्यसहिष्णुभावलक्षणस्य आपादनाद्-विधानात् द्वेषो दोषः ॥१०॥ हेयेतरभावाधिगमप्रतिबन्धविधानान्मोह इति ॥ ११॥ (४९२) इह निश्चयनयेन हेयानां-मिथ्यात्वादीनामितरेषां च-उपादेयानां-सम्यग्दर्शनादीनां भावानां व्यवहारतस्तु विषक| ण्टकादीनां स्रक्चन्दनादीनां च अधिगमस्य-अवबोधस्य प्रतिबन्धविधानात्-स्खलनकरणात् मोहो दोषः ॥११॥ अथैतेषां भावसनिपातत्वं समर्थयन्नाह सत्स्वेतेषु न यथावस्थितं सुखं, स्वधातुवैषम्यादिति ॥ १२ ॥ (४९३) सत्स्वेतेषु-रागादिषु 'न' नैव 'यथावस्थितं' पारमार्थिकं सुखं जीवस्य, अत्र हेतु:-' स्वधातुवैषम्यात् ' दधति-धारयन्ति जीवस्वरूपमिति धातवः-सम्यगदर्शनादयो गुणाः स्वस्य-आत्मनो धातवः २ तेषां वैषम्यं यथावस्थित वस्तुस्वरूपपरिहारेणान्यथारूपतया भवनं तस्मात् , यथा हि वातादिदोषोपघाताहातुषु रसामृगादिषु वैषम्यापन्नेषु न देहिनो

Loading...

Page Navigation
1 ... 191 192 193 194 195 196