Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 194
________________ धर्मबिन्दु अष्टमाध्याय: ॥९ ॥ यथावस्थितं कामभोग मनःसमाधिनं वा शर्म किश्चन लभन्ते तथा अमी संसारिणः सवाः रागादिदोषवचात् सम्यग्दर्शनादिषु मलीमसरूपतां प्राप्तेषु न रागद्वेषमोहोपशमनं शर्म समासादयन्तीति ॥१२॥ अमुमेवार्थ व्यतिरेकत आह क्षीणेषु न दुःखं, निमित्ताभावादिति ॥ १३ ॥ (४९४) क्षीणेषु रागादिषु न दुःखं भावसंनिपात समुत्पद्यते, कुन इति चेदुच्यते-निमित्ताभावात्--निबन्धननिवरहादिति ॥१३॥ तर्हि किं स्यादित्याह आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्तेस्तत्तथास्वभावत्वात् परमसुखभाव इतीति ॥१४॥ (४९५) आत्यन्तिकः-पुनर्भावाभावेन भावरोगाणां-रागादीनां यो विगमः-समुच्छेदः तस्मात् या परमेश्वरतायाः-शकचक्राधिपा. द्यैश्वर्यातिशायिन्याः केवलज्ञानादिलक्षणाया आप्तिः-प्राप्तिः तस्याः, परमसुखभाव इत्युत्तरेण योगा, कुत इत्याह-'तत्तथास्वभावत्वात् ' तस्य-परमसुखलाभस्य 'तथास्वभावत्वात् ' परमेश्वरतारूपत्वात् , परमसुखभावः संपद्यते, इतिः वाक्यपरिसमाप्ताविति ॥१४॥ इत्थं तीर्थकरातीर्थकरयोः सामान्यमनुत्तरं धर्मफलमभिधाय साम्पतं तीर्थकृत्वलक्षणं तदभिधातुमाह देवेन्द्रहर्षजननमिति ॥ १५॥ (४९६) । देवेन्द्राणां-चमरशक्रादीनां हर्षस्य-संतोषस्य जननं-संपादन मिति ॥ १५॥ तथा-पूजानुग्रहाङ्गतेति ॥ १६॥ (४९७) पूजया-जन्मकालादारभ्याऽऽनिर्वाणप्राप्तेस्तचन्निमित्तेन निष्पादितया अमरगिरिशिखरमज्जनादिरूपया योऽनुग्रहो ॥२५॥

Loading...

Page Navigation
1 ... 192 193 194 195 196