Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 192
________________ अष्टमाध्यायः ॥९॥ रातीर्थ पक्षापेक्षया, यतो दर्शनमोहसप्तकस्यापूर्वकरणस्थ एव क्षयं करोतीति तन्मतं, न तु यथा कार्मग्रन्थिकाभिप्रायेण अविरतसम्य धर्मस्य ग्दृष्टयाद्यन्यतरगुणस्थानकचतुष्टयस्थ इति १४ । ततो 'मोहसागरोत्तारः' मोहो-मिथ्यात्वमोहादिः स एव सागरः-स्वयं तीर्थकभरमणादिपारावारः मोहसागरः तस्मादुत्तारः-परपारमाप्तिः १५, ततः केवलाभिव्यक्ति' केवलस्य-केवलज्ञानकेवलदर्श करसानलक्षणस्य जीवगुणस्य ज्ञानावरणादिघातिकर्मोपरताव भिव्यक्तिः-आविर्भावः १६, ततः 'परमसुखलाभः' परमस्य-प्र धारणकृष्टस्य देवादिसुखातिशायिनः सुखस्य लाभ:-प्राप्तिः, उक्तं च-" यच्च कामसुख लोके, यच्च दिव्यं महासुखम् । वीतरागसु- फलम् खस्येदमनंतांशे न वर्तते ॥ २१४ ॥” इति १७ ॥ ५॥ अत्रैव हेतुमाह सदारोग्याप्तेरिति ॥६॥ (४८७) सदारोग्यस्य-भावारोग्यरूपस्य आहे:-लाभात ॥ ६ ॥ इयमपि कुत इत्याह भावसंनिपातक्षयादिति ॥७॥ (४८८) भावसं निपातस्य-पारमार्थिकरोगविशेषस्य क्षयाद्-उच्छेदात् ॥ ७॥ संनिपातमेव व्याचष्टेरागद्वेषमोहा हि दोषाः, तथा तथाऽऽत्मदूषणादिति ॥ ८॥ (४८९) 'रागद्वेषमोहा' वक्ष्यमाणलक्षणाः 'हिः' स्फुटं 'दोषा' भावसंनिपातरूपाः, अत्र हेतुमाह-' तथा तथा' तेन | तेन प्रकारेण-अभिष्वङ्गकरणादिना आत्मनो-जीवस्य दूषणाद्--विकारप्रापणात् ॥ ८॥' तत्त्वभेदपर्यायाख्ये 'ति न्याया-10 द्रागादीनेव तत्त्वत आह ॥९४||

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196