Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
तभावे बाह्यादल्पबन्धभावादिति ॥ ३१ (४७४) 'तभावे' अशुभपरिणामाभावे बाह्यात्--जीवहिंसादेः 'अल्पबन्धभावात् ' तुच्छबन्धोत्पत्तेः॥ ३१ ॥ एतदपि कथमित्याह
वचनप्रामाण्यादिति ॥ ३२ ॥ (४७५) वचनस्य-आगमस्य 'प्रामाण्यात् ' प्रमाणभावात् ॥३२॥ एतदेव भावयन्नाह
बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेरिति ॥ ३३॥ (४७६) बाह्यः-शरीरमात्रजन्यः स चासावुपमर्दश्च-बहुतमजीवोपघातरूपः तत्रापि, किं पुनस्तदभावे इत्यपिशब्दार्थः, 'असं-18 ज्ञिषु ' संमूछजमहामत्स्यादिषु 'तथा' अल्पता बन्धस्य 'श्रुतेः''अस्सन्नी खलु पढम' इत्यादेवचनस्य सिद्धान्ते समाकर्णनात्, तथाहि-असंज्ञिनो महामत्स्यादयो योजनसहस्रादिप्रमाणशरीराः स्वयंभूरमणमहासमुद्रमनवरतमालोडयमानाः पूर्वकोटयादिजीविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभापृथिव्यामेव उत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्तिनारकेषु जन्म लभन्ते न परतः, तन्दुलमत्स्यस्तु बाह्योपमर्दाभावेऽपि निनिमित्तमेवापूरितातितीव्ररौद्रध्यानोऽन्तर्मुहर्तमायुरनुपाल्य सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारक उत्पद्यते इति परिणाम एव प्रधान बन्धकारणमिति सिद्धं भवतीति ॥ ३३ ॥ एवं सति यदन्यदपि सिद्धिमास्कन्दति तदर्शयति
एवं परिणाम एव शुभो मोक्षकारणमपीति ॥३४॥ (४७७)

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196