Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 187
________________ प्रकर्षनिष्पत्तौ शैलेश्यवस्थालक्षणायां निर्वाणस्य-सकलक्लेशलेशविनिर्मुक्त वस्वरूपलाभलक्षणस्यावाप्तिः-लाभ 'इति' परिसमाप्ताविति ॥ ४१॥ यत्किंचन शुभं लोके, स्थानं तत्सर्वमेव हि । अनुबन्धगुणोपेतं, धर्मादाप्नोति मानवः॥४०॥ इति । 'यत्किञ्चन' सर्वमेवेत्यर्थः 'शुभं' सुन्दरं 'लोके' त्रिजगल्लक्षणे 'स्थानं शकाद्यवस्थावभावं तत्सर्वमेव 'हि" स्फुटं, कीदृशमित्याह-'अनुबन्धगुणोपेतं' जात्यस्वर्णघटितघटादिवत् उत्तरोत्तरानुबन्धसमन्वितं 'धर्माद् । उक्तनिरुक्ताद् 'आमोति ' लभते 'मानवः' पुमान् , मानवग्रहणं च तस्यैव परिपूर्णधर्मसाधनसहत्वादिति ॥१॥ तथा-धर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्याणमुत्तमम् ।हित एकान्ततो धर्मों, धर्म एवामृतं परम् ॥४१॥ इति एतन्निगदसिद्धमेव, परं यत्पुनः पुनर्धर्मशब्दोपादानं तद्धर्मस्यात्यन्तादरणीयताख्यापनार्थमिति ॥२॥ तथा-चतुर्दशमहारत्नसद्भोगान्तृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं, धर्महेलाविजृम्भितम् ॥ ४२ ॥ चतुर्दशानां महारत्नानां-सेनापति-गृहपति-पुरोहित-गज-तुरग-वर्द्धकि-खो-चक्र-छत्र-चर्म-मणि-काकिणी-| खड्ग-दण्ड-लक्षणानां 'सद्भोगात्' परानपेक्षितया सुन्दरभोगात 'नृषु' नरेषु मध्ये 'अनुत्तमं सर्वप्रधान, कि तदित्याह-'चक्रवर्तिपदं ' चक्रधरपदवी 'प्रोक्तं' प्रतिपादित सिद्धान्ते 'धर्महेलाविजृम्भितं' धर्मलीलाविलसितमिति ॥३॥ इति श्रीमुनिचन्द्रमूरिविरचितायां धर्मबिन्दुवृत्तौ धर्मफलविधिः सप्तमोऽध्यायः व्याख्यातः

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196