Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
'एवम् ' उक्तरूपेण विधिना-सामान्यतो विशेषतश्च गृहस्थधर्मलक्षणेन समायुक्तः-संपन्नः 'सेवमानः' अनुशीलयन् 'गृहाश्रम' गृहवासं, किमित्याह-'चारित्रमोहनीयेन' प्रतीतरूपेण 'मुच्यते' परित्यज्यते 'पापकर्मणा' पापकृत्यात्मकेन ॥१॥ एतदपि कथमित्याह
सदाज्ञाऽऽराधनायोगाद्भावशुद्धेनियोगतः। उपायसंप्रवृत्तेश्च, सम्यक्चारित्ररागतः ॥२०॥
सन्-अकलङ्कितो य आज्ञाराधनयोगो-यतिधर्माभ्यासासहेनादौ श्रावकधर्मः अभ्यसनीय इत्येवलक्षणो जिनोपदेशसंबन्धः तस्माद् यका भावशुद्धिः-मनोनिर्मलता तस्याः 'नियोगतः' अवश्यतया तथा 'उपायसंप्रवृत्तेश्च' उपायेन शुद्धहेत्वङ्गीकरणरूपेण प्रवृत्तेः-चेष्टनात् , चकारो हेत्वन्तरसमुच्चये, इयमपि कुत इत्याह-'सम्यकचारित्ररागतः' निर्व्याजचारित्राभिलाषात् , इदमुक्तं भवति-सदाज्ञाराधनायोगात् यका भावशुद्धिः या च सम्यक्चारित्ररागत: उपायसंपत्तिः अणुव्रतादिपालनरूपा ताभ्यामुभाभ्यामपि हेतुभ्यां चारित्रमोहनीयेन मुच्यते, न पुनरन्यथेति ॥२॥ आह इदमपि कथं सिद्धं यथेत्य चारित्रमोहनीयेन मुच्यते ततः परिपूर्णप्रत्याख्यानभाग्भवतीत्याशङ्कयाहविशुद्धं सदनुष्ठानं, स्तोकमप्यर्हतां मतम् । तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि ॥२१॥
'विशुद्ध' निरतिचारं अत एव सत्-सुन्दरं अनुष्ठानं स्थूलपाणातिपातविरमणादि 'स्तोकमपि' अन्यतमैकभङ्गकप्रतिपत्त्या अल्पं, बहु तावन्मतमेवेत्यपिशब्दार्थः, 'अहंतां' पारगतानां 'मतम् ' अभीष्टं, कथमित्याह-'तत्त्वेन' तात्त्विकरूपतया, न पुनरतिचारकालुष्यक्षितं बहप्यनुष्ठानं सुन्दरं मतं, 'तेन च ' तेन पुनर्विशुद्धनानुष्ठानेन करणभूतेन स्तोके

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196