Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकनककुशलगणिविरचिता
१४५ अमराः 'कर्मधारयः', कपोलमूलमत्ताश्च ते भ्रमझमराश्च कपोलमूलमत्तभ्रमभ्रमराः 'कर्मधारयः', विलोलाश्च ते कपोलमूलमत्तभ्रमभ्रमराश्च विलोलकपोलमूलमत्तभ्रमभ्रमराः 'कर्मधारयः', थ्योतन्मदाविलाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराश्च श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमराः 'कर्मधारयः', श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमराणां नादः श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादः 'तत्पुरुषः', थ्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादेन विवृद्धः श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमझमरनादविवृद्धः 'तत्पुरुषः', श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमअमरनादविवृद्धः कोपो यस्य सः श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमरनादविवृद्धकोपस्तं 'बहुप्रीहिः' । इति चतुस्त्रिंशत्तमवृत्तार्थः॥ ३४ ॥
अथ सिंहभयहरं जिनं स्तौति-(भिन्नेभेत्यादि)। व्याख्या हे पुरुषसिंह ! 'हरिणाधिपोऽपि' हरिणानामधिपो हरिणाधिपः 'तत्पुरुषः' सिंहोऽपि ते-तव क्रमयुगाचलसंश्रितं-चरणयुग्मपर्वतकृतवासं, क्रमयोयुगं क्रमयुगं 'तत्पुरुषः', क्रमयुगमेवाचलः क्रमयुगाचलः 'कर्मधारयः', क्रमयुगाचलं संश्रितः क्रमयुगाचलसंश्रितः 'तत्पुरुषः', एवंविधं पुरुषं नाकामति-न ग्रहणायोद्यतते, न हन्तुमुद्धावतीत्यर्थः। पुरुषं किंभूतम् ? 'क्रमगतं' क्रमयोर्गतः क्रमगतः तं 'तत्पुरुषः', फालप्राप्तमित्यर्थः । हरिणाधिपः किंलक्षणः ? 'बद्धक्रमः' बद्धः-कीलितः क्रमा-पराक्रमो यस्याथवा बद्धाः क्रमा:-पादविक्षेपरूपा येन स बद्धक्रमः 'बहुव्रीहिः' । हरिणाधिपः किंविशिष्टः? 'भिन्नेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागः' भिन्नाभ्यां (-पाटिताभ्यां) हस्तिशिरःपिण्डाभ्यां गलता-पतता उज्ज्वलेन-श्वेतवर्णेन शोणिताक्तन-रुधिरखरण्टितेन मुक्ताफलप्रकरण-मौक्तिकसमूहेन भूषितो-मण्डितो भूमिभागो येन सः। एतेन भद्रद्विपहन्तृत्वान्महाबलिष्ठत्वं सूचितम् । भिन्नश्चासाविभश्च भिन्नेभः 'कर्मधारयः', भिन्नेभस्य कुम्भौ भिन्नेभकुम्भौ 'तत्पुरुषः', उज्ज्वलं च तत् शोणितं च उज्ज्वलशोणितं 'कर्मधारयः', गलच्च तदु उज्ज्वलशोणितं च गलदुज्वलशोणितं 'कर्मधारयः', भिकुम्भाभ्यां गलदुज्वलशोणितं भिन्नेभकुम्भगलदुज्ज्वलशोणितं 'तत्पुरुषः', भिन्नेभकु. लदुज्ज्वलशोणितेनाक्ता भिन्नभकुम्भगलदुज्वलशोणिताक्तः 'तत्पुरुषः', मुक्ताफलानां प्रकरः मुक्ताफलप्रकरः 'तत्पुरुषः', भिन्नेभकुम्भगलदुज्वलशोणिताक्तश्चासौ मुक्ताफलप्रकरश्च भिन्नेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरः 'कर्मधारयः', भिन्नेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरेण भूषितो भिन्नेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरभूषितः 'तत्पुरुषः', भूमे गो भूमिभागः 'तत्पुरुष', भिन्नेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरभूषितो भूमिभागो येन स भिन्नेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागः 'बहुव्रीहिः' । इति पञ्चत्रिंशत्तमवृत्तार्थः ॥ ३५॥
भ०१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408