Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 300
________________ श्रीसिद्धसेनदिवाकरकृतम् १७५ पञ्चमी डसि 'आपो डितां यैयास्यास्याम्' (सिद्ध०१-४-१७) इति यास् आदेशे सस्य रुत्वे विसर्गत्वे च सिद्धिः कर्णिकायाः ॥ इति चतुर्दशकाव्यार्थप्रतीतिः ॥ १४ ॥ Oh Jina! the Yogins always search after Thee, the supreme soul in the interior of their heart-lotus-bud. Or why, is there any other abode for the pure and the unsulliedly splendid lotus-seed than the pericarp?. (14) अथ जिनस्य ध्यातारोऽपि जिनसदृशा एव जायन्ते इति एतजिनमाहात्म्यं प्रतिपादयन् काव्यत्रयमाह ध्यानाजिनेश ! भवतो भविनः क्षणेन देहं विहाय परमात्मदशां व्रजन्ति । तीवानलादुपलभावमपास्य लोके चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ॥ क० वृ०-हे जिनेश ! भवतो ध्यानाद् भविनो देहं विहाय परमात्मदशां क्षणेन व्रज. न्तीत्यन्वयः । कर्तर्युक्तिः। जिनानामीशो जिनेशस्तस्य सम्बोधनं हे जिनेश । 'भवतः'तव । 'ध्यानात्' जापात् । 'भविनः' प्राणिनः । भवो विद्यते येषां ते भविनः । 'देह' शरीरम् । 'विहाय' त्यक्त्वा । 'परमात्मदशां' परमब्रह्मावस्थाम् । परमश्चासावात्मा च परमात्मा 'कर्मधारयः', परमात्मनो दशा परमात्मदशा तां तत्पुरुषः' । क्षणेन' क्षणात् । 'व्रजन्ति' प्राप्नुवन्ति । दृष्टान्तमाह-इव-यथा तीव्रानलादुपलभावमपास्य लोके धातुभेदाश्चामीकरत्वमचिराद् व्रजन्ति । कवुक्तिः । 'तीव्रानलात्' प्रबलानियोगात् । तीव्रश्चासावनलश्च तीवानलस्तस्मात् 'कर्मधारयः' । 'उपलभावं' पाषाणत्वम् । उपलस्य भावः उपलभावः तं 'तत्पुरुषः' । 'अपास्य' परित्यज्य । 'लोके' जगति । 'धातुभेदाः' धातुतया प्रसिद्धाः पाषाणविशेषाः । धातूनां भेदा धातुभेदाः 'तत्पुरुषः' । 'चामीकरत्वं' स्वर्णत्वम् । चामीकरस्य भावः चामीकरत्वं तत् । 'अचिरात्' क्षणात् । 'बजन्ति' प्राप्नुवन्ति । इति पञ्चदशवत्तार्थः॥१५॥ ___ मा० वि०-ध्यानादिति । हे जिनेश! भविनो-जन्मिनो भवतः-तव ध्यानात् क्षणेन देहं विहाय-त्यक्त्वा परमात्मदशां व्रजन्ति-गच्छन्ति । 'बजन्ति' इति क्रियापदम् । के कतारः? 'भविनः' । काम् ? 'परमात्मदशां' परब्रह्मावस्थाम् । किं कृत्वा ? 'विहाय' । कं कर्मतापन्नम् ? 'देहम्' । कस्मात् ? 'ध्यानात्' । कस्य ? 'भवतः तव । केन ? 'क्षणेन'। उतार्थ प्रतीतिविषयीकुरुते-इव-यथा धातुभेदा-धातुप्रकाराः तीव्रानलात्-तीवाग्नेरुप १०मनाह' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408