Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२०८
कल्याणमन्दिरस्तोत्रम् तेन कारणेन इह 'जन्मनि' इह भवे पराभवानां निकेतनं-गृहं जातोऽस्मि । 'अस्मि' इति क्रियापदम् । कः कर्ता ? 'अहम्' । कथम्भूतः ? 'जातः'। किं जातः ? 'निकेतनं' गृहम् । केषाम् ? 'पराभवानाम्' अनर्थानाम् । किम्भूतानाम् ? 'मथिताशयानां' मथित आशयःचित्ताभिप्रायो यैस्ते मथिताशयास्तेषाम् ॥
'अहं मह पूजायां' (सिद्ध० धा०) महधातुः। क्तप्रत्ययः इट् क्लीबे सौ महितं इति जातम् । जनानां बान्धव इव जनबान्धवस्तस्य सम्बोधनं हे जनबान्धव! । ईहितं च तद् दानं च ईहितदानं, ईहितदाने दक्षम् ईहितदानदक्षम् इति पत्रिंशत्तमकाव्यार्थकल्पना ॥ ३६॥
A worshipper of God can never suffer froin lumiliations and disappointments.
Oh God! I believe that Thy ( pair of ) feet capable of granting desired gifts has not been worshipped by me even in the previous births. That is why I have (now) become in this birth an object of humiliations and an abode of frustrated hopes. (36).
नूनं न मोहतिमिरावृतलोचनेन
पूर्व विभो! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः
प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ? ॥ ३७ ॥ क. वृ०-हे विभो! नूनं मोहतिमिरावृतलोचनेन मया पूर्व सकृदपि त्वं न प्रवि. लोकितोऽसि इत्यन्वयः । कर्तयुक्तिः । 'नूनं' निश्चयेन । 'मोहतिमिरावृतलोचनेन' मोहान्धकाराच्छादितनेत्रेण । मोह एव तिमिरं मोहतिमिरं 'कर्मधारयः', मोहतिमिरेणावृते मोहतिमिरावृते 'तत्पुरुषः', मोहतिमिरावृते लोचने यस्य स मोहतिमिरावृतलोचनः 'बहुब्रीहिः तेन । मयेतिशेषः। 'पूर्व' प्रथमम् । 'सकृदपि' एकशोऽपि । त्वं 'न प्रविलोकितोऽसि' प्रकर्षण-चित्तैकाग्ररूपेण न विलोकितोऽसि-न निरीक्षितोऽसि । अत्रार्थे हेतुमाह-अन्यथा मर्माविधः प्रोद्यत्प्रवन्धगतयोऽनर्था एते हि मां कथं विधुरयन्तीत्यन्वयः। कर्चुक्तिः। 'अन्यथा' त्वदर्शने सति । 'मर्माविधः' मर्मभेदिनः। मर्माणि आविध्यन्तीति मर्माविधः 'तत्पु. रुषः। 'प्रोद्यत्प्रवन्धगतयः' उत्पद्यमानपरम्पराप्रवृत्तयः । प्रोद्यन्तश्च ते प्रबन्धाश्च प्रोद्यत्प्रबन्धाः 'कर्मधारयः', प्रोद्यत्प्रबन्धानां गतिर्येषु ते (प्रोद्य०) 'बहुव्रीहिः' एवंविधाः।
१. 'कवुक्तिः' इति ध-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408