Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 391
________________ २६२ श्रीऋषभस्तुतिः श्रीजिनपतितव शासनमनुपहित-प्रमाणमप्यप्रमाणवन्नाथ!। कः साधिमोहसाधन-मपहृतमोहमपि न स्तौति ॥ २८ ॥ तवागमं निरुपाधिप्रत्यक्षादिप्रमाणमपि अप्रमाणवत् नि शिताज्ञानमपि अधियुक्तमोहहेतुः एवंविधं को न स्तौतीति विरोधः । अथवाणो जीवा आणवं प्रमायाः-सम्यग्ज्ञानस्य आणवं-तनुत्वं न विद्यते तत् यस्य साधो वः साधिमा उहा-वितर्कस्तयोर्हेतुः । अपहृतमोहं पूर्ववत् । एवंविधं तवागमं को न स्तौति परिहारः ॥ २८ ॥ कथकोऽपि सप्तभङ्ग्या नवभङ्ग्या ज्ञापकः कथं भवसि ? । कृतनवतत्त्वाव्यञ्जक!, इन ! नव तत्त्वानि विशसि कथम् ? ॥ २९ ॥ स्वामिन् ! स्यादस्ति १ स्यान्नास्ति २ स्यादस्ति नास्ति च ३ स्यादवक्तव्यं ४ स्यादस्ति च अवक्तव्यं ५ स्यान्नास्ति च अवक्तव्यं ६ स्यादस्ति च नास्ति च अवक्तव्यं ७ चेत्येवंरूपायाः सप्तभङ्गयाः कथकोऽपि नवभङ्ग्या भङ्गवञ्चकस्य ज्ञापकः कथं भवसि ?। तथा विहितनवतत्त्वाऽप्रकटनोपि नवसङ्खयानि जीवाजीवादि कथं कथयसीति विरोधः । अथ च सप्तभङ्ग्याः कथकोऽपि नवभझ्या नवच्छिन्नाज्ञापको कथं भवसि ? । हे इन !-खामिन् ! हे कृतस्तव ! विगतमञ्जनं घातिकर्मादिरूपं यस्य स तथा तस्य सम्बोधनं हे व्यञ्जनिनः पापतत्त्वानि विस्तार्य नव तत्त्वानि दिशसीति परिहारः ॥ २९ ॥ साम्प्रतं पश्चकल्याणकस्तुतिमाह तिथिरप्यतिथिप्रवरा, चतुर्थ्यसौ तापदानतापदावि(चि?)ता। असिताऽपि शुचिधुरीणां, यस्यां नाथ ! त्वमच्योष्टाः ॥ ३० ॥ खामिन् ! यस्यां त्वं च्युतः असौ चतुर्थी तिथिरपि अतिथिप्रधाना सन्तापदायिन(?) सन्तापवाव्याप्ताः कृष्णाऽपि श्वेतधुर्या इत्यं विरोधः । अथ च सा चतुर्थी तिथिः अतिथीनां-साधूनां प्रवरा-तपोऽनुष्ठानादिनाऽऽराधत्वात् श्रेष्ठा तापं पति-खण्डयति तापदा नतैः-प्रणतैः अपचिता-पूजिता न नाशुचे:-आषाढस्य धुरीणा-प्रथमा अत एव असिता-कृष्णा परिहारः ॥ ३०॥ नूतनबकुलश्रीः, सजपावजाता मधोरपि श्यामा । इयमष्टमीश ! यस्या-मजनिष्ट जवानदीषिषः ॥ ३१ ॥ यस्यामष्टम्यां भगवान् समुदपादि अदीक्षिष्ट च सा मधोः-वसन्तस्य श्यामा-प्रियङ्गुलताऽपि जाता कीदृशीति सर्वत्र योज्यते । तन्नूतना-प्रत्यग्रा बकुलश्रीर्यस्यां सा तथा शोभनबन्धूकरूपा च विरोधः । अथ च सा इयं मधोः-चैत्रस्य श्यामाऽष्टमी नूता-स्तुता प्रत्यमा कुलश्रीर्यस्यां सा । सन्-प्रधानो जपः-जापः परमेष्ठयादिरूपा यस्यां सा तथा जाता परिहारः ॥ ३१ ॥ शानं तव यत्राभूत् , फाल्गुनिकैकादशी सुभद्राऽपि । कृष्णारुचितेयमहो, अभिमन्युविरोधिनी जज्ञे ॥ ३२ ॥ यस्यामेकादश्यां तव ज्ञानमभूत् सा इयं फाल्गुनिका अर्जुनभार्या-सुभद्राऽपि कृष्णाया-द्रौपद्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408