Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ २६० श्रीऋषभस्तुतिः [श्रीजिनपति-- अकलत्रं सकलत्रं, अमहा समहा रमा अमा नस्त्वम् । अत्रासः सत्रासो विधेह्यदम्भः सदम्भः श्राक् ॥ १७ ॥ (अ)भार्यः सभार्यः सतेजाः निस्तेजाः निर्भयः सभयः अमायः समायः एवंविधस्त्वं नः-अस्माकं रमालक्ष्मीः अमा-अलक्ष्मीखरूपाः कुरु शीघमिति विरोधः । पूर्वपदं पूर्ववत् समस्तजनरक्षकः । अमान्-रोगान् हन्तीति अ० । सत्रं-यज्ञं अस्यति-क्षिपति स०-यज्ञनिवारकः । सदं-सर्वदा भाति-शोभते सदम्भः-सदा शोभमानः । एवंविधगुणे [य]न त्वं अस्माकं लक्ष्मीन विद्यते अमा मानं यस्यां सा इ(अ)माः प्रभूता कुरु ॥१७॥ जीवा भीतिमभीति, प्रमादमलमप्रमादमश्नुवते । अप्रतिपदं प्रतिपदं, विपदमविपदं तवाभक्तेः ॥ १८ ॥ प्राणिनस्तव अभक्तेः-अबहुमानतो लभन्ते भयं अभयं प्रमादं-रागद्वेषादिकारणं प्रमादाभावं प्रतिपदं ज्ञानं आपदं पदाभावं यस्याः सकाशात् भयं लभ्यते तस्याः कथमिति विरोधः । अथ च भीतिं किंविशिष्टाम् ? सा अभीतिः आभि-मुख्येन षट्प्रकारा ईतयो यस्यां सा । प्रमादं किंविशिष्टम् ? अप्रमाम्-असम्यग्ज्ञानं ददातीति असम्यग्ज्ञानदायकम् अप्रति-अज्ञानं प्रतिपदं निरं...पदं-वेऽस्थानस्य पदं-स्थानं तिर्यग्गति... सर्वमपि । तवाभक्तेः सकाशात् जीवाः प्राप्नुवन्ति परिहारः ॥ १८॥ अभ्यङ्गप्रभवोऽपि, त्वमीश! नाभ्यङ्गभूः कथं भवसि । अपि सुरदेवातनयो-ऽमरुदेवानन्दनश्चित्रम् ॥ १९ ॥ अभ्यङ्गप्रभवोऽपि-म्रक्षणस्थानमपि नाभ्यङ्गस्थानं मरुदेवापुत्रोऽपि अमरुदेवापुत्रः कथं भवसि चित्रम्आश्चर्यम् । अथ खामिन् ! अभि-मुख्येन अङ्गानां-द्वादशाङ्गना उत्पत्तिस्थानं अभिरूपाणां--मनोज्ञानां अङ्गानां शरीरावयवानां स्थानं वा नाभिकुलकर...मरुदेवापुत्रः अमरुदेव अमान्-रोगान्....निरुधतो वा रोगनिरोध.... आनन्दनो आह्लादकस्त्वं भवसि परिहारः ॥ १९ ॥ नो पाठीनक्षोभ, न वारिपूरं न नक्रमकरमुदम् । नतरङ्गभरं पुष्यति सरस्वती देव ! तव चित्रम् ॥ २० ॥ हे देव ! तव सरस्वती-नदी नो मत्स्यविशेषचलनं न जलपूरं न नक्रमकरहर्षम् न कल्लोलमूलं (६) पुष्णातीति चित्रम्-आश्चर्यम् । अथ च पाठीनां....त्राणमिताः न तेषां क्षोभं वाऽघ....न क्रमं सदाचार कुर्वन्तीति क्रमचा...(क्रमकरास्तषां) मुदमेव प्रणतजनानुराग....(समूह)पुष्णातीति परिहारः ॥ २० ॥ अर्यमतनयाभेद्यपि, भवानहो के सदस्युतां धत्ते ? । अपि जिष्णुतामजात-द्विषन्नपि श्रीपतिः स्मरताम् ॥ २१ ॥ अर्यमतनया...भेद्यपि बलभद्रोऽपि तारा......पि त्वं श्रीपतिरपि कामत्वं......श्चर्यम् । अथ च अर्थ !-खामिन् ! अभी नयानामभेदकः भवान् कं-ज्ञानं......सिश्चा सदसिः-प्रधानखड्ग......यनशीलतां विधत्ते । अथ विजयनशीलतां कीदृशीम् ! उतांसं...सभायां स्मरतां-ध्येयता पुंसां समव...अपि अजातद्विषन् असञ्जात...॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408