Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 361
________________ २३२ भयहरेत्यपरनामक नमिऊणस्तोत्रम् इत्यादि । एवं च निर्देश आर्षत्वात् , अन्यथा नखमणिमाणिक्यप्रतिमस्य ससम्भ्रमं पार्थिवानां नभ इव नभो-मस्तकं तत्र ये मणयः-चन्द्रकान्ताद्या माणिक्यानि च-कर्केतनादीनि तेषु पतिता प्रतिमा यस्य । भगवानेव तत्र प्रतिबिम्बित इत्यर्थः ॥ १२-१३ ॥ Those who wield the weapon of speech of Thine in whose nails resembling jewels and rubies, are reflected images of the kings who have reverentially prostraated themselves, do not mind even the enraged lion whose eyes are (red) like kindled fire, whose mouth is wide open and whose body is gigantic ( whose roar is very loud) and who has pierced the expanse of temples of lordly elephants with strokes of adamantine nails. 12-13 ससिधवलदंतमुसलं, दीहकरुल्लालवुड्डिउच्छाहं । महुपिंगनयणजुअलं, ससलिलनवजलहरायोरं ॥ भीमं महागइंदं, अच्चासन्नं पि ते न विगणंति । जे तुम्ह चलणजुअलं, मुणिवइ ! तुंगं समल्लीणा ॥१४-१५॥-युग्मम् [ शशिधवलदन्तशुसलं दीर्घकरोल्लालवर्धितोत्साहम् । मधुपिङ्गनयनयुगलं संसलिलनवजलधराकारम् ॥ भीमं महागजेन्द्र अत्यासन्नमपि ते न विगणयन्ति । ये तव चरणयुगलं मुनिपते ! तुझं समालीनाः॥] दन्तौ मुसलाविव दन्तमुसली, शशिधवलौ तौ यस्य तम् । दीर्घो यः करः-शुण्डा तस्योल्लालनं-उच्छालनं तेन वर्धित उत्साहः-प्रगल्भता संरम्भो वा यस्य । मधुवत् पिङ्गं-पिङ्गलवर्ण नयनयुगलं यस्य सः । ससलिलो-जलपूर्णो यो नवजलधरस्तस्याकार इवाकार-आ. कृतिर्यस्य, श्यामत्वाद् उन्नतत्वाच्च । अत्र जलधरशब्दो मेघमात्रवाची, न तु क्रोडीकृत. जलगर्भवाची, सलिलपदस्य पौनरुक्त्यापत्तेः । अथवा स्वसलिलेन-निजमदजलेन नवजलधराकारं, वर्षकत्वात् ॥ भीमं महागजेन्द्र, महच्छब्देन महत्त्वं व्यज्यते । अथवा भियो मर्माणि नन्ति भीमर्महा अतो निर्भयास्ते नरा गजेन्द्रं-महागजमिति योज्यम् । अत्यासन्नमपि ते नरा न विगणयन्ति-भयहेतुतया न भावयन्ति । ये तव चरणयुगलं तुझंगुणैरुन्नतं हे मुनिपते ! समालीनाः-सम्यगाश्रिताः। यो हि तुझं-पर्वतादिकं समाश्रयति कुतः तस्य अत्यासन्नादपि गजेन्द्राद् भयमिति ॥ १४-१५॥ १ 'भवानेव' इति ख-पाठः । २ 'रावं' इत्यपि पाठः। ३ भीममहा गइंदं इत्यपि पदच्छेदः समुचितः, अर्थान्तरं यथा-भीमर्महाः (who have pierced the vital parts of fear) गजेन्द्राः । ४ 'स्वसलिल.' (own rut) इत्यपि घटते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408