Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमानतुङ्गसूरिप्रणीतम्
२३१
वन्ति तैः । 'उल्लूरिअ' त्ति लुण्टिताः पथिकाः सार्था यासु ॥ एवंविधास्वप्यटवीषु हे नाथ ! तव प्रणाममात्रमेव व्यापारः - कृत्यं येषां ते तन्माहात्म्यादेव न विलुप्तं - मुषितं विभवसारंउत्कृष्टं धनं येषां ते व्यपगतविघ्नाः शीघ्रं प्राप्ताः हृदयेप्सितं - मनसा यत् प्राप्तुमिष्टं हितेप्सितं वा स्थानम् ॥ १०-११ ॥
Oh Lord! those whose only activity is obeisance to Thee quickly reach the desirable goal, with their essence of wealth unmolested and with their obstacles completely surmounted, even from jungles which are terrifying on account of tumult of the Bhillas, thieves, savages and tigers ( or lions ) and wherein trave• llers and caravans affected with fear and pain have been plundered by the Bhillas, 10-11
妖 32 ॐ
पज्जलिआणलनयणं, दूरवियारियमुहं महाकायं ।
नहकुलिसघायविअलिअ - गइंदकुंभत्थलाभोअं ॥
A
पणयस संभमपत्थिव-नहमणिमाणिक्कपडिअपडिमस्स ।
तुह वयणपहरणधरा, सीहं कुद्धंपि न गणंति ॥ १२-१३ ॥ युग्मम् [ प्रज्वलितानलनयनं दूरविदारितमुखं महाकायम् । नखकुलिशघातविदलितगजेन्द्रकुम्भस्थलाभोगम् ॥ प्रणतससम्भ्रम पार्थिवने खमणिमाणिक्यपतितप्रतिमस्य । तव वचनप्रहरणधराः सिंहं क्रुद्धमपि न गणयन्ति ॥ ]
प्रज्वलितो योऽनलः स इव रक्तत्वादिसाधर्म्यान्नयने यस्य तम् । दूरम् - अत्यर्थं विदारितं - व्यात्तं मुखं येन, प्रसारितास्यमित्यर्थः । महान् कायः शरीरं यस्य, यद्वा 'कै शब्दे' ( पा० धा० ९१६) कायनं कायः शब्दः - महाक्ष्वेडानादस्तमिति । नखाः कुलिशानीवकार्कश्यादिभिर्वज्रा इव तेषां घातः - प्रहारस्तेन विदलितो यो गजेन्द्राणां कुम्भस्थल विस्तारो येन ॥ ईदृक्षं सिंहं क्रुद्धमपि तव वचनप्रहरणधरा नरा न गणयन्ति न भयहेतुतया सम्भावयन्ति । तव किं० ? प्रणताः ससम्भ्रमा - आदरसहिता ये पार्थिवा-नृपाः, अथवा पृथिव्यां ज्ञाताः-विख्याताः पार्थिवाः इन्द्रादयस्तेषां सम्बन्धिनी नखमणिमाणिक्येषु पतिता प्रतिमा-बिम्बं यस्य । मणिषु - रत्नेषु मध्ये माणिक्यानि, जात्यरक्तरत्नानीत्यर्थः । ततः नखा एव स्वच्छत्वात् मणिमाणिक्यानीति यस्य नखरलेषु प्रणमन्तः पार्थिवाः प्रतिबिम्बितास्तस्य तव
१ 'तुहवयण ० ' इत्यपि घटते । २ ' नभमणि०' इति वा । ३ 'कायादेशः महा०' इति क- पाठः । ४ 'प्रतिबिम्बिता' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408