Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 379
________________ ख- परिशिष्टम् । श्रीरत्नमुनिप्रणीतं ॥ कल्याणमन्दिरच्छायास्तोत्रम् ॥ ( अनुष्टुप छन्दसि निबद्धम् ) Jain Education International श्रेयोबीजमवयारी, प्रणिपत्याभयप्रदौ । भवाब्धौ पततामर्हत्-पादौ प्रकृतिपतितौ ॥ १ ॥ गरिम्णोर्वर्णने यस्य, न देव (वा) ऋषयोऽप्यलम् । स्तौमि तं कमठौन्नत्य-मूलोषर्बुधमीश्वरम् ॥ २ ॥ सुवचा न भवद्वार्ता, प्रभो ! सामान्यतोऽपि नः । उलूकबालः किं वक्ता, धृष्टोऽपि रविरोचिषाम् ॥ ३ ॥ आदर्शेनापि सङ्ख्या, गुणाः केवलिना न ते । कल्पान्तप्रकटोऽप्यब्धे, रत्नौघः केन मीयते ? ॥ ४ ॥ अनन्तयशसस्तेऽस्मि, जडोऽपि स्तवनोद्यतः । बाहू प्रसार्य ही बालः, सिन्धुविस्तारशंसिता ॥ ५ ॥ सतामपि भवलक्ष्मीं वक्तुं नैति कियानहम् ? । शोच्यैव तदिदं (यं) प्रौढि, पक्षिभाषावदस्ति वा ॥ ६॥ स्तवस्तेऽद्भुतमाहात्म्य, आस्तां नामापि विश्वपम् । पद्महस्य वातोsपि, निदाघेऽध्वगतर्पणः ॥ ७ ॥ जन्तोर्नश्यन्ति कर्माणि, हृद्वर्तिनि सति त्वयि । अन्तश्चन्दनमायाते, मयूरे भुजगा इव ॥ ८ ॥ त्वयि दृष्टेऽपि मुच्यन्ते, नरा रौद्रैरुपद्रवैः । स्फुरत्तेजसि गोपाले, पशवस्तस्करैरिव ॥ ९ ॥ हृदोद्वहतां नृणां तारकोऽसि कथं प्रभो ! । मध्यवातानुभावो वा इतिस्तरति यज्जलम् ॥ १० ॥ हरादीनपि जेता यो, जितः कामोऽपि स त्वया । संवर्तकः पिवत्येव, वारि वह्निविनाश्यपि ॥ ११ ॥ १ उपर्युधः - अभिः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408