________________
ख- परिशिष्टम् । श्रीरत्नमुनिप्रणीतं
॥ कल्याणमन्दिरच्छायास्तोत्रम् ॥
( अनुष्टुप छन्दसि निबद्धम् )
Jain Education International
श्रेयोबीजमवयारी, प्रणिपत्याभयप्रदौ । भवाब्धौ पततामर्हत्-पादौ प्रकृतिपतितौ ॥ १ ॥ गरिम्णोर्वर्णने यस्य, न देव (वा) ऋषयोऽप्यलम् । स्तौमि तं कमठौन्नत्य-मूलोषर्बुधमीश्वरम् ॥ २ ॥ सुवचा न भवद्वार्ता, प्रभो ! सामान्यतोऽपि नः । उलूकबालः किं वक्ता, धृष्टोऽपि रविरोचिषाम् ॥ ३ ॥ आदर्शेनापि सङ्ख्या, गुणाः केवलिना न ते । कल्पान्तप्रकटोऽप्यब्धे, रत्नौघः केन मीयते ? ॥ ४ ॥ अनन्तयशसस्तेऽस्मि, जडोऽपि स्तवनोद्यतः । बाहू प्रसार्य ही बालः, सिन्धुविस्तारशंसिता ॥ ५ ॥ सतामपि भवलक्ष्मीं वक्तुं नैति कियानहम् ? । शोच्यैव तदिदं (यं) प्रौढि, पक्षिभाषावदस्ति वा ॥ ६॥ स्तवस्तेऽद्भुतमाहात्म्य, आस्तां नामापि विश्वपम् । पद्महस्य वातोsपि, निदाघेऽध्वगतर्पणः ॥ ७ ॥ जन्तोर्नश्यन्ति कर्माणि, हृद्वर्तिनि सति त्वयि । अन्तश्चन्दनमायाते, मयूरे भुजगा इव ॥ ८ ॥ त्वयि दृष्टेऽपि मुच्यन्ते, नरा रौद्रैरुपद्रवैः । स्फुरत्तेजसि गोपाले, पशवस्तस्करैरिव ॥ ९ ॥
हृदोद्वहतां नृणां तारकोऽसि कथं प्रभो ! । मध्यवातानुभावो वा इतिस्तरति यज्जलम् ॥ १० ॥ हरादीनपि जेता यो, जितः कामोऽपि स त्वया । संवर्तकः पिवत्येव, वारि वह्निविनाश्यपि ॥ ११ ॥
१ उपर्युधः - अभिः ।
For Private & Personal Use Only
www.jainelibrary.org