________________
श्रीरत्नमुनिप्रणीतं
२४९
लोहिताक्षोऽसितः क्रोधी, आपतन्नुत्फणोऽप्यहिः । नोपद्रवाय घटते, त्वद्ध्यानामृतचेतसाम् ॥ ३७॥ अनीकं बलिनां राज्ञां, हस्त्य-ऽश्वरथदारुणम् । अनरश्मेरिव ध्वान्तं, याति त्वद्भजनाद् मिदम् ॥ ३८॥ कुन्तदारितनागासृग-वर्षाव्याकुलसैनिके। जयन्त्यरिगणं युद्धे, त्वत्सेवासुखिनो जनाः॥ ३९ ॥ अब्धौ क्षुभितयादस्के, ज्वलदुल्बणवाडवे । रङ्गत्तरङ्गशृङ्गस्था, तरति त्वज्जुषां तेरी(:) ॥ ४० ॥ रोगभारभुजः शोच्या-स्त्यजन्तोऽपि जिजीविषाम् । भवत्प्रभावाजायन्ते, नराः कन्दर्परूपिणः॥४१॥ आपादकण्ठमानद्धाः, शृङ्खलानिगडादिभिः। त्वन्मत्रं सुजपन्तः स्यु-र्भव्यास्त्रुटितबन्धनाः॥ ४२ ॥ करि-सिंहा-ऽग्नि-सा-ऽऽजि-वारिधि-व्याधि-बन्धजम् । न भयं तस्य यस्तेऽमु-मधीते स्तवमुच्चकैः ॥ ४३ ॥ सद्वर्णकुसुमां स्तोत्र-स्रज ते गुणगुम्फिताम् । कण्ठपीठे निधत्ते य-स्त्रिरत्नश्रीरुपैति तम् ॥४४॥ इति 'भक्तामर'च्छाया-मादाय हृदयप्रियाम् ।। नाभिराजाङ्गजः स्वीय-धर्माय मयका स्तुतः ॥ ४५ ॥ समाप्तमेतच्छायाभक्तामराख्यस्तवनं श्रीआदिपरमेश्वरस्य ।।
(सूर्यकिरणातू)। २ कुन्तैः-भछैदारिता ये नागा-जास्तेषामसरवर्षया-शोक्तिवर्षणेन कृत्वा व्याकुलाः सैनिका-योधा यत्रेति तस्मिन् । ३ (नौका)। ४ करी-हस्ती,सिंह:-केशरी, अमिः-दवानल इति, सर्पः-भुजङ्गा, आजिः-सङ्ग्रामः, वारिधिः-समुद्रः, व्याधिः-श्रामयः तेभ्यो जातमिति । ५ इह रत्न इति वर्णा भगवदृभृस्यस्यापि ज्ञापकाः। ६ स्वीयः-स्वकीयो यो धर्म:-स्वभावो निश्चयतः केवलज्ञानलक्षणस्तसै-तदर्थम् ।
भ० ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org