Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 378
________________ श्रीरत्नमुनिप्रणीतं २४९ लोहिताक्षोऽसितः क्रोधी, आपतन्नुत्फणोऽप्यहिः । नोपद्रवाय घटते, त्वद्ध्यानामृतचेतसाम् ॥ ३७॥ अनीकं बलिनां राज्ञां, हस्त्य-ऽश्वरथदारुणम् । अनरश्मेरिव ध्वान्तं, याति त्वद्भजनाद् मिदम् ॥ ३८॥ कुन्तदारितनागासृग-वर्षाव्याकुलसैनिके। जयन्त्यरिगणं युद्धे, त्वत्सेवासुखिनो जनाः॥ ३९ ॥ अब्धौ क्षुभितयादस्के, ज्वलदुल्बणवाडवे । रङ्गत्तरङ्गशृङ्गस्था, तरति त्वज्जुषां तेरी(:) ॥ ४० ॥ रोगभारभुजः शोच्या-स्त्यजन्तोऽपि जिजीविषाम् । भवत्प्रभावाजायन्ते, नराः कन्दर्परूपिणः॥४१॥ आपादकण्ठमानद्धाः, शृङ्खलानिगडादिभिः। त्वन्मत्रं सुजपन्तः स्यु-र्भव्यास्त्रुटितबन्धनाः॥ ४२ ॥ करि-सिंहा-ऽग्नि-सा-ऽऽजि-वारिधि-व्याधि-बन्धजम् । न भयं तस्य यस्तेऽमु-मधीते स्तवमुच्चकैः ॥ ४३ ॥ सद्वर्णकुसुमां स्तोत्र-स्रज ते गुणगुम्फिताम् । कण्ठपीठे निधत्ते य-स्त्रिरत्नश्रीरुपैति तम् ॥४४॥ इति 'भक्तामर'च्छाया-मादाय हृदयप्रियाम् ।। नाभिराजाङ्गजः स्वीय-धर्माय मयका स्तुतः ॥ ४५ ॥ समाप्तमेतच्छायाभक्तामराख्यस्तवनं श्रीआदिपरमेश्वरस्य ।। (सूर्यकिरणातू)। २ कुन्तैः-भछैदारिता ये नागा-जास्तेषामसरवर्षया-शोक्तिवर्षणेन कृत्वा व्याकुलाः सैनिका-योधा यत्रेति तस्मिन् । ३ (नौका)। ४ करी-हस्ती,सिंह:-केशरी, अमिः-दवानल इति, सर्पः-भुजङ्गा, आजिः-सङ्ग्रामः, वारिधिः-समुद्रः, व्याधिः-श्रामयः तेभ्यो जातमिति । ५ इह रत्न इति वर्णा भगवदृभृस्यस्यापि ज्ञापकाः। ६ स्वीयः-स्वकीयो यो धर्म:-स्वभावो निश्चयतः केवलज्ञानलक्षणस्तसै-तदर्थम् । भ० ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408