Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री रत्नमुनिप्रणीतं
हृद्यो धायैसेऽत्यन्त-गरिमाऽपि कथं जनैः ? । तरद्भिराशु जन्माम्बु, चित्रा वा महतां गतिः ॥ १२ ॥ क्रोधं निरस्य भवता, कर्मचौरा हताः कथम् ? । नीलविपिनं प्लोष -त्युत किं न हिमान्यपि १ ॥ १३ ॥ हृदनको पश्यन्ति योगिनस्त्वामधीश्वरम् । अक्षस्य यदि वा कोऽन्यः, कर्णिकायाः समाश्रयः १ ॥ १४ ॥ भवद्ध्यानाद् वपुस्त्य (क्त्वा ), ब्रह्मत्वे भान्ति मानवाः । धातुभेदा इव त्वं स्वर्णत्वे प्रबलानलात् ॥ १५ ॥ यदन्तर्भाव्यसे भव्यै - देहं नाशयसे कथम् ? । महानुभावा मध्यस्था, विग्रहस्योपशान्तये ॥ १६ ॥ त्वदभेदधियाऽऽत्माऽयं, ध्यातस्त्वमिव जायते । सुधेति चिन्त्यमानं किं स्याद्वारि न विषापहम् ॥ १७ ॥ हरादिबुद्ध्या सेवन्ते, त्वां देवं परवादिनः । काचकामलिनः श्वेते, शङ्ख वर्णान्तरेक्षिणः || १८ || आस्तां परस्तरुरपि, स्यादशोकस्त्वदन्तिके । जागर्ति उदिते वा जीवलोकः सभूरुहः ॥ १९ ॥ अधोवृन्तं मरुत्पुष्प - वृष्ट्या प्रत्यय एष मे । त्वयि ज्ञाते सुमनसां बन्धनानि पतन्त्यधः ॥ २० ॥ मनोऽर्णवसमुत्थायाः, पीयूषत्वं भवद्भिरः ।
पीत्वा स्वचिदेकाग्रा: ( ? ), पदं यान्त्यजरामरम् ॥ २१ ॥ नमनोत्पतनैश्चारुचामराणामितीव धीः । तुल्यं प्रणमतां भावा, भाविनामूर्ध्वगामिता || २२ || रत्नासनगरौ गर्जि-गिरं भव्य शिखण्डिनः । श्यामलं त्वां प्रपश्यन्ति, सद्यस्कमिव वारिदम् ॥ २३ ॥ कङ्केल्लिर्लप्तपर्णश्रीः, शितिभामण्डलेन ते ।
भवत्सान्निध्यतः स्वामिन्!, नीरागः स्यान्न कोऽपरः १ ॥ २४ ॥ भो भो भजत मुक्तध्व - सार्थवाहमिमं मुदा ।
धीरेभ्य इति शास्तीव, ध्वनंस्ते नाम दुन्दुभिः ॥ २५ ॥ व्यधिकारो भयुक् चन्द्रो, जगतां द्योतने त्वया (य) । ' मुक्ताजालिसितच्छत्र - त्रितनुस्त्वामुपागतः ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
२५१
www.jainelibrary.org

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408