Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२४८
भक्तामरच्छायास्तोत्रम्
बुद्धोऽसि बोधतोऽशेष - शङ्करत्वाच्च शङ्करः । ध्याता तीर्थकरत्वात् त्वं व्यक्तेस्त्वं पुरुषोत्तमः ॥ २५ ॥ नमस्ते दुःखकक्षा !, नमस्ते भूमिभूषण ! | नमस्ते परमेष्ठ्यात्मन् !, नमस्ते पापमोचन ! ॥ २६ ॥ स्थानान्तरमविन्दन्तो ( ? ), विश्वे त्वामागता गुणाः । आश्रयानन्त्यतैस्त्वं, दोषैः स्वप्नेऽपि नादृतः ॥ २७ ॥ अशोकं समया रूप - मुद्दीप्ति तव भासते । घनाघनघटापार्श्वे, यथा बिम्बं विवस्वतः || २८ ॥ मणिसिंहासने देहः, स्वर्णवर्णो विभाति ते । उदयाचलमूनींव, विमानं भासुरं रवेः ॥ २९ ॥ वपुर्विभ्राजते गौरं, चलच्चामरचारु ते । प्रोद्गच्छज्झरधारेव, तटी काञ्चनभूभृतः ॥ ३० ॥ मुक्ताजालततश्रीकं, तापघ्नं शशिसुन्दरम् । छत्रत्रयं ध्वनयति, त्रैलोक्येश्वरतां तव ॥ ३१ ॥ मेराभिनवहेमाब्ज - कान्त्यच्छनखरोचिषोः । न्यासे त्वत्पदयोर्देवा, न्यस्यन्ति नलिनीवनम् ॥ ३२ ॥ इत्थं यथोपकारात्मा त्वं श्रीमान् न तथाऽपरः । तरणेर्यादृशं भाग्यं, ग्रहाणां नैव तादृशम् ॥ ३३ ॥ दानसौरभमत्तालि - झङ्काररवकोपितम् । आयान्तमपि वीक्ष्येभं, त्वदीयो न हि शङ्कते ॥ ३४ ॥ करजैर्भिन्नमातङ्ग - कुम्भमुक्ता वहन्नपि ।
नाक्रामति भवद्दासं, केशरी कीलितक्रमः ॥ ३५ ॥ क्षयोषैर्बुधसङ्काशः, प्रोत्स्फुलिङ्गो दवानलः । निजिघानिव विश्वस्य, भवन्नाम्ना प्रशाम्यति ॥ ३६ ॥
किञ्चिदपि करोतीति भकर्ता, स्वार्थे कः अकर्तृकस्तम् । अनेन नैयायिका अधः क्रियन्ते तेषां हि भुवनोदरस्य बुद्धिमस्कर्तृकत्वात् । तथा तद्भावतः- तत्त्वतः अव्ययितः - अक्षयित इति तद्भावाव्ययितस्तम्, उत्पादव्ययधौव्ययुक्तत्वात् । अनेन बौद्धानां तिरस्कारः, यतस्ते क्षणक्षयिणमात्मानं मन्यन्त इति । तथा सन्तं विद्यमानं, निजापेक्षयेत्यर्थः । अनेन चार्वाकश्ववितः, तत्र हि सर्वथाऽध्यात्मनोऽसत्वात् । रागादिशत्रूणां जेता जिनस्तम् । इह स्याद्वादोपलक्षणं सम्मा• नितं ततः ।
Jain Education International
१ आश्रयाः - स्थानानि ते हरि-हरादयस्तेषामानन्त्यम् - अनन्तता ततो दृप्ता - गर्विता आश्रयानन्त्यहप्तास्तैः कृत्वा प्रभुः कदाचिदपि न विलोकितोऽसीति । यो बहुभिर्मान्यते स चैकमभिप्रायविपरीतमवगणयतीति न्यायः ।
२ उपकार एव आत्मा-स्वरूपं यस्यासौ उपकारात्मा । यथा स्वं लक्ष्मीवान् तथा नापरे इति । यथा हि सूर्यः प्रकाशतः परोपकारी तथा ग्रहाः प्रकाशवन्तोऽपि न हि परोपकारिणो भवन्तीति । ३ ( उषर्बुधः - अनलः) ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408